८. पुरिसिन्द्रियञाणसुत्तवण्णना
६२. अट्ठमे निब्बत्तिवसेन अपायसंवत्तनियेन वा कम्मुना अपायेसु नियुत्तोति आपायिको नेरयिकोति एत्थापि एसेव नयो. अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो. निरयूपपत्तिपरिहरणवसेन तिकिच्छितुं असक्कुणेय्योति अतेकिच्छो. अखण्डानीति एकदेसेनपि अखण्डितानि. भिन्नकालतो पट्ठाय बीजं बीजत्थाय न उपकप्पति. अपूतीनीति उदकतेमनेन अपूतिकानि. पूतिकञ्हि बीजं बीजत्थाय न उपकप्पति. अवातातपहतानीति वातेन च आतपेन च न हतानि निरोजतं न पापितानि. निरोजञ्हि कसटं बीजं बीजत्थाय न उपकप्पति. ‘‘सारादानी’’ति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा पाळियं ‘‘सारदानी’’ति वुत्तन्ति आह ‘‘सारादानी’’ति. तण्डुलसारस्स आदानतो सारादानि, गहितसारानि पतिट्ठितसारानि. निस्सरञ्हि बीजं बीजत्थाय न उपकप्पति. सुखसयितानीति चत्तारो मासे कोट्ठे पक्खित्तनियामेनेव सुखसयितानि सुट्ठु सन्निचितानि. मण्डखेत्तेति ऊसखारादिदोसेहि अविद्धस्ते सारक्खेत्ते. अभिदोति अभि-सद्देन समानत्थनिपातपदन्ति आह ‘‘अभिअड्ढरत्त’’न्ति. नत्थि एतस्स भिदाति वा अभिदो. ‘‘अभिदं अड्ढरत्त’’न्ति वत्तब्बे उपयोगत्थे पच्चत्तवचनं. अड्ढरत्तन्ति च अच्चन्तसंयोगवचनं, भुम्मत्थे वा. तस्मा अभिदो अड्ढरत्तन्ति अभिन्ने अड्ढरत्तसमयेति अत्थो. पुण्णमासियञ्हि गगनमज्झस्स पुरतो वा पच्छतो वा चन्दे ठिते अड्ढरत्तसमयो भिन्नो नाम होति, मज्झे एव पन ठिते अभिन्नो नाम.
सुप्पबुद्धसुनक्खत्तादयोति एत्थ (ध. प. अट्ठ. २.१२७ सुप्पबुद्धसक्यवत्थु) सुप्पबुद्धो किर साकियो ‘‘मम धीतरं छड्डेत्वा निक्खन्तो, मम पुत्तं पब्बाजेत्वा तस्स वेरिट्ठाने ठितो चा’’ति इमेहि द्वीहि कारणेहि सत्थरि आघातं बन्धित्वा एकदिवसं ‘‘न दानि निमन्तितट्ठानं गन्त्वा भुञ्जितुं दस्सामी’’ति गमनमग्गं पिदहित्वा अन्तरवीथियं सुरं पिवन्तो निसीदि. अथस्स सत्थरि भिक्खुसङ्घपरिवुते तं ठानं आगते ‘‘सत्था आगतो’’ति आरोचेसुं. सो आह – ‘‘पुरतो गच्छाति तस्स वदेथ, नायं मया महल्लकतरो, नास्स मग्गं दस्सामी’’ति. पुनप्पुनं वुच्चमानोपि तथेव निसीदि. सत्था मातुलस्स सन्तिका मग्गं अलभित्वा ततोव निवत्ति. सोपि चरपुरिसं पेसेसि – ‘‘गच्छ तस्स कथं सुत्वा एही’’ति. सत्थापि निवत्तन्तो सितं कत्वा आनन्दत्थेरेन – ‘‘को नु खो, भन्ते, सितपातुकम्मे पच्चयो’’ति पुट्ठो आह – ‘‘पस्ससि, आनन्द, सुप्पबुद्ध’’न्ति. पस्सामि, भन्ते. भारियं तेन कम्मं कतं मादिसस्स बुद्धस्स मग्गं अदेन्तेन, इतो सत्तमे दिवसे हेट्ठापासादे पासादमूले पथविया पविसिस्सती’’ति आचिक्खि.
सुनक्खत्तोपि (म. नि. अट्ठ. १.१४७) पुब्बे भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं पुच्छि. अथस्स भगवा कथेसि. सो दिब्बचक्खुं निब्बत्तेत्वा आलोकं वड्ढेत्वा ओलोकेन्तो देवलोके नन्दनवनचित्तलतावनफारुसकवनमिस्सकवनेसु दिब्बसम्पत्तिं अनुभवमाने देवपुत्ते च देवधीतरो च दिस्वा – ‘‘एतेसं एवरूपाय अत्तभावसम्पत्तिया ठितानं किर मधुरो नु खो सद्दो भविस्सती’’ति सद्दं सोतुकामो हुत्वा दसबलं उपसङ्कमित्वा दिब्बसोतधातुपरिकम्मं पुच्छि. भगवा पनस्स – ‘‘दिब्बसोतधातुस्स उपनिस्सयो नत्थी’’ति ञत्वा परिकम्मं न कथेसि. न हि बुद्धा यं न भविस्सति, तस्स परिकम्मं कथेन्ति. सो भगवति आघातं बन्धित्वा चिन्तेसि – ‘‘अहं समणं गोतमं पठमं दिब्बचक्खुपरिकम्मं पुच्छिं, सो मय्हं ‘सम्पज्जतु वा मा वा सम्पज्जतू’ति कथेसि. अहं पन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा दिब्बसोतधातुपरिकम्मं पुच्छिं, तं मे न कथेसि. अद्धा एवं होति ‘अयं राजपब्बजितो दिब्बचक्खुञाणं निब्बत्तेत्वा, दिब्बसोतञाणं निब्बत्तेत्वा, चेतोपरियकम्मञाणं निब्बत्तेत्वा, आसवानं खये ञाणं निब्बत्तेत्वा, मया समसमो भविस्सती’ति इस्सामच्छरियवसेन मय्हं न कथेती’’ति भिय्योसो आघातं बन्धित्वा कासायानि छड्डेत्वा गिहिभावं पत्वापि न तुण्हीभूतो विहासि. दसबलं पन असता तुच्छेन अब्भाचिक्खित्वा अपायूपगो अहोसि. तम्पि भगवा ब्याकासि. वुत्तञ्हेतं – ‘‘एवम्पि खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो मया वुच्चमानो अपक्कमेव इमस्मा धम्मविनया, यथा तं आपायिको’’ति (दी. नि. ३.६). तेन वुत्तं ‘‘अपरेपि सुप्पबुद्धसुनक्खत्तादयो भगवता ञातावा’’ति. आदि-सद्देन कोकालिकादीनं सङ्गहो दट्ठब्बो.
सुसीमो परिब्बाजकोति (सं. नि. अट्ठ. २.२.७०) एवंनामको वेदङ्गेसु कुसलो पण्डितो परिब्बाजको. अञ्ञतित्थिया हि परिहीनलाभसक्कारसिलोका ‘‘समणो गोतमो न जातिगोत्तादीनि आरब्भ लाभग्गप्पत्तो जातो, कविसेट्ठो पनेस उत्तमकविताय सावकानं बन्धं बन्धित्वा देति. ते तं उग्गण्हित्वा उपट्ठाकानं उपनिसिन्नकथम्पि अनुमोदनम्पि सरभञ्ञम्पीति एवमादीनि कथेन्ति. ते तेसं पसन्नानं लाभं उपसंहरन्ति. सचे मयं यं समणो गोतमा जानाति, ततो थोकं जानेय्याम, अत्तनो समयं तत्थ पक्खिपित्वा मयम्पि उपट्ठाकानं कथेय्याम. ततो एतेहि लाभितरा भवेय्याम. को नु खो समणस्स गोतमस्स सन्तिके पब्बजित्वा खिप्पमेव उग्गण्हितुं सक्खिस्सती’’ति एवं चिन्तेत्वा ‘‘सुसिमो पटिबलो’’ति दिस्वा उपसङ्कमित्वा एवमाहंसु ‘‘एहि त्वं, आवुसो सुसीम, समणे गोतमे ब्रह्मचरियं चर, त्वं धम्मं परियापुणित्वा अम्हे वाचेय्यासि, तं मयं धम्मं परियापुणित्वा गिहीनं भासिस्साम, एवं मयम्पि सक्कता भविस्साम गरुकता मानिता पूजिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (सं. नि. २.७०).
अथ सुसीमो परिब्बाजको तेसं वचनं सम्पटिच्छित्वा येनानन्दो तेनुपसङ्कमि, उपसङ्कमित्वा पब्बज्जं याचि. थेरो च तं आदाय भगवन्तं उपसङ्कमित्वा एतमत्थं आरोचेसि. भगवा पन चिन्तेसि ‘‘अयं परिब्बाजको तित्थियसमये ‘अहं पाटिएक्को सत्था’ति पटिजानमानो चरति, ‘इधेव मग्गब्रह्मचरियं चरितुं इच्छामी’ति किर वदति, किं नु खो मयि पसन्नो, उदाहु मय्हं वा मम सावकानं धम्मकथाय पसन्नो’’ति. अथस्स एकट्ठानेपि पसादाभावं ञत्वा ‘‘अयं मम सासने ‘धम्मं थेनेस्सामी’ति पब्बजति, इतिस्स आगमनं अपरिसुद्धं, निप्फत्ति नु खो कीदिसा’’ति ओलोकेन्तो ‘‘किञ्चापि ‘धम्मं थेनेस्सामी’ति पब्बजति, कतिपाहेनेव पन घटेत्वा अरहत्तं गण्हिस्सती’’ति ञत्वा ‘‘तेनहानन्द, सुसीमं पब्बाजेथा’’ति आह. तं सन्धायेतं वुत्तं ‘‘एवं भगवता को ञातो? सुसीमो परिब्बाजको’’ति.
सन्ततिमहामत्तोति (ध. प. अट्ठ. २.१४१ सन्ततिमहामत्तवत्थु) सो किर एकस्मिं काले रञ्ञो पसेनदिस्स पच्चन्तं कुपितं वूपसमेत्वा आगतो. अथस्स राजा तुट्ठो सत्त दिवसानि रज्जं दत्वा एकं नच्चगीतकुसलं इत्थिं अदासि. सो सत्त दिवसानि सुरामदमत्तो हुत्वा सत्तमे दिवसे सब्बालङ्कारप्पटिमण्डितो हत्थिक्खन्धवरगतो नहानतित्थं गच्छन्तो सत्थारं पिण्डाय पविसन्तं द्वारन्तरे दिस्वा हत्थिक्खन्धवरगतोव सीसं चालेत्वा वन्दि. सत्था सितं कत्वा ‘‘को नु खो, भन्ते, सितपातुकरणे हेतू’’ति आनन्दत्थेरेन पुट्ठो सितकारणं आचिक्खन्तो आह – ‘‘पस्ससि, आनन्द, सन्ततिमहामत्तं, अज्जेव सब्बाभरणप्पटिमण्डितो मम सन्तिकं आगन्त्वा चातुप्पदिकगाथावसाने अरहत्तं पत्वा परिनिब्बायिस्सती’’ति. तेन वुत्तं ‘‘एवं को ञातो भगवताति? सन्ततिमहामत्तो’’ति.
पुरिसिन्द्रियञाणसुत्तवण्णना निट्ठिता.