११. अप्पमादसुत्तवण्णना
५३. एकादसमे जङ्गलानन्ति एत्थ यो निपिच्छलो न अनूपो निरुदकताय थद्धलूखो भूमिप्पदेसो, सो ‘‘जङ्गलो’’ति वुच्चति. तब्बहुलताय पन इध सब्बो भूमिप्पदेसो जङ्गलो. तस्मिं जङ्गले जाता भवाति वा जङ्गला, तेसं जङ्गलानं. एवञ्हि नदिचरानम्पि हत्थीनं सङ्गहो कतो होति समोधातब्बानं विय समोधायकानम्पि इध जङ्गलग्गहणेन गहेतब्बतो. पथवीतलचारीनन्ति इमिना जलचारिनो च निवत्तेति अदिस्समानपादत्ता. ‘‘पाणान’’न्ति साधारणवचनम्पि ‘‘पदजातानी’’ति सद्दन्तरसन्निधानेन विसेसनिविट्ठमेव होतीति आह ‘‘सपादकपाणान’’न्ति. ‘‘मुत्तगत’’न्तिआदीसु (म. नि. २.११९; अ. नि. ९.११) गत-सद्दो विय इध जात-सद्दो अनत्थन्तरोति आह ‘‘पदजातानीति पदानी’’ति. समोधानन्ति समवरोधं, अन्तोगधं वा. तेनाह ‘‘ओधानं उपनिक्खेपं गच्छन्ती’’ति. कूटङ्गमाति पारिमन्तेन कूटं उपगच्छन्ति. कूटनिन्नाति कूटच्छिद्दमग्गे पविसनवसेन कूटे निन्ना. कूटसमोसरणाति छिद्दे अनुपविसनवसेन च आहच्च अवत्थानेन च कूटे समोदहित्वा ठिता. वण्टे पतमाने सब्बानि भूमियं पतन्तीति आह ‘‘वण्टानुवत्तकानि भवन्ती’’ति.
अप्पमादसुत्तवण्णना निट्ठिता.