८-११. अत्तकारीसुत्तादिवण्णना

३८-४१. अट्ठमे कुसलकिरियाय आदिआरम्भभावेन पवत्तवीरियं ठितसभावताय सभावधारणट्ठेन धातूति वुत्तन्ति आह – ‘‘आरम्भधातूति आरभनवसेन पवत्तवीरिय’’न्ति. लद्धासेवनं वीरियं बलप्पत्तं हुत्वा पटिपक्खे विधमतीति आह ‘‘निक्कमधातूति कोसज्जतो निक्खमनसभावं वीरिय’’न्ति. परक्कमनसभावोति अधिमत्ततरानं पटिपक्खधम्मानं विधमनसमत्थताय पटुपटुतरभावेन परं परं ठानं अक्कमनसभावो. नवमादीसु नत्थि वत्तब्बं.

अत्तकारीसुत्तादिवण्णना निट्ठिता.