१०. अनुत्तरियसुत्तवण्णना
३०. दसमे निहीनन्ति लामकं, किलिट्ठं वा. गामवासिकानन्ति बालानं. पुथुज्जनानं इदन्ति पोथुज्जनिकं. तेनाह ‘‘पुथुज्जनानं सन्तक’’न्ति, पुथुज्जनेहि सेवितब्बत्ता तेसं सन्तकन्ति वुत्तं होति. अनरियन्ति न निद्दोसं. निद्दोसट्ठो हि अरियट्ठो. तेनाह ‘‘न उत्तमं न परिसुद्ध’’न्ति. अरियेहि वा न सेवितब्बन्ति अनरियं. अनत्थसंहितन्ति दिट्ठधम्मिकसम्परायिकादिविविधविपुलानत्थसहितं. तादिसञ्च अत्थसन्निस्सितं न होतीति आह ‘‘न अत्थसन्निस्सित’’न्ति. न वट्टे निब्बिन्दनत्थायाति चतुसच्चकम्मट्ठानाभावतो. असति पन वट्टे निब्बिदाय विरागादीनं असम्भवोयेवाति आह ‘‘न विरागाया’’तिआदि.
अनुत्तमं अनुत्तरियन्ति आह ‘‘एतं अनुत्तर’’न्ति. हत्थिस्मिन्ति निमित्तत्थे भुम्मन्ति आह ‘‘हत्थिनिमित्तं सिक्खितब्ब’’न्ति. हत्थिविसयत्ता हत्थिसन्निस्सितत्ता च हत्थिसिप्पं ‘‘हत्थी’’ति गहेत्वा ‘‘हत्थिस्मिम्पि सिक्खती’’ति वुत्तं. तस्मा हत्थिसिप्पे सिक्खतीति एवमेत्थ अत्थो दट्ठब्बो. सेसपदेसुपि एसेव नयो.
लिङ्गब्यत्तयेन विभत्तिब्यत्तयेन पारिचरियेति वुत्तन्ति आह ‘‘पारिचरियाय पच्चुपट्ठिता’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.
अनुत्तरियसुत्तवण्णना निट्ठिता.
अनुत्तरियवग्गवण्णना निट्ठिता.