३. निस्सारणीयसुत्तवण्णना
१३. ततिये वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता. युत्तयानसदिसा कताति यथा युत्तमाजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तिरहं गहिता. वत्थुकताति वा अधिट्ठानट्ठेन वत्थु विय कता, सब्बसो उपक्किलेसविसोधनेन इद्धिविसेसताय पवत्तिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कताति वुत्तं होति. अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता. समन्ततो चिताति सब्बभागेन भावनूपचयं गमिता. तेनाह ‘‘उपचिता’ति. सुट्ठु समारद्धाति इद्धिभावनासिखाप्पत्तिया सम्मदेव सम्भाविता. अभूतब्याकरणं ब्याकरोतीति ‘‘मेत्ता हि खो मे चेतोविमुत्ति भाविता’’तिआदिना अत्तनि अविज्जमानगुणाभिब्याहारं ब्याहरति. चेतोविमुत्तिसद्दं अपेक्खित्वा ‘‘निस्सटा’’ति वुत्तं. पुन ब्यापादो नत्थीति इदानि मम ब्यापादो नाम सब्बसो नत्थीति ञत्वा.
बलवविपस्सनाति भयतुपट्ठाने ञाणं, आदीनवानुपस्सने ञाणं मुच्चितुकम्यताञाणं, भङ्गञाणन्ति चतुन्नं ञाणानं अधिवचनं. येसं निमित्तानं अभावेन अरहत्तफलसमापत्तिया अनिमित्तता, तं दस्सेतुं ‘‘सा ही’’तिआदि वुत्तं. तत्थ रागस्स निमित्तं, रागो एव वा निमित्तं रागनिमित्तं. आदि-सद्देन दोसनिमित्तादीनं सङ्गहो दट्ठब्बो. रूपवेदनादिसङ्खारनिमित्तं रूपनिमित्तादि. तेसंयेव निच्चादिवसेन उपट्ठानं निच्चनिमित्तादि. तयिदं निमित्तं यस्मा सब्बेन सब्बं अरहत्तफले नत्थि, तस्मा वुत्तं ‘‘सा हि…पे… अनिमित्ता’’ति. निमित्तं अनुस्सरति अनुगच्छति आरब्भ पवत्तति सीलेनाति निमित्तानुसारी. तेनाह ‘‘वुत्तप्पभेदं निमित्तं अनुसरणसभाव’’न्ति.
अस्मिमानोति ‘‘अस्मी’’ति पवत्तो अत्तविसयो मानो. अयं नाम अहमस्मीति रूपलक्खणो वेदनादीसु वा अञ्ञतरलक्खणो अयं नाम अत्ता अहं अस्मीति. अस्मिमानो समुग्घातीयति एतेनाति अस्मिमानसमुग्घातो, अरहत्तमग्गो. पुन अस्मिमानो नत्थीति तस्स अनुप्पत्तिधम्मतापादनं कित्तेन्तो समुग्घातत्तमेव विभावेति.
निस्सारणीयसुत्तवण्णना निट्ठिता.