१०. महानामसुत्तवण्णना
१०. दसमे तस्मिं समयेति बुद्धागुणानुस्सरणसमये. रागपरियुट्ठितन्ति रागेन परियुट्ठितं. परियुट्ठानप्पत्तिपि, रागेन वा संहितं चित्तं अरञ्ञमिव चोरेहि तेन परियुट्ठितन्ति वुत्तं, तस्स परियुट्ठानट्ठानभावतोपि परियुट्ठितरागन्ति अत्थो. ब्यञ्जनं पन अनादियित्वा अत्थमत्तं दस्सेन्तो ‘‘उप्पज्जमानेन रागेन उट्ठहित्वा गहित’’न्ति आह. उजुकमेवाति पगेव कायवङ्कादीनं अपनीतत्ता चित्तस्स च अनुजुभावकरानं मानादीनं अभावतो, रागादिपरियुट्ठानाभावेन वा ओणतिउण्णतिविरहतो उजुभावमेव गतं. अथ वा उजुकमेवाति कम्मट्ठानस्स थिनं मिद्धं ओतिण्णताय लीनुद्धच्चविगमतो मज्झिमसमथनिमित्तप्पटिपत्तिया उजुभावमेव गतं. अट्ठकथं निस्सायाति भवजातिआदीनं पदानं अत्थं निस्साय. अत्थवेदन्ति वा हेतुफलं पटिच्च उप्पन्नं तुट्ठिमाह. धम्मवेदन्ति हेतुं पटिच्च उप्पन्नं तुट्ठिं. ‘‘आरकत्ता अरह’’न्ति अनुस्सरन्तस्स हि यदिदं भगवतो किलेसेहि आरकत्तं, सो हेतु. ञापको चेत्थ हेतु अधिप्पेतो, न कारको सम्पापको. ततोनेन ञायमानो अरहत्तत्थो फलं. इमिना नयेन सेसपदेसुपि हेतुसो फलविपाको वेदितब्बो. धम्मानुस्सतिआदीसुपि हि आदिमज्झपरियोसानकल्याणतादयो सुप्पटिपत्तिआदयो च तत्थ तत्थ हेतुभावेन निद्दिट्ठायेव. धम्मूपसंहितन्ति यथावुत्तहेतुफलसङ्खातगुणूपसंहितं.
महानामसुत्तवण्णना निट्ठिता.
आहुनेय्यवग्गवण्णना निट्ठिता.