१०. चतुत्थअनागतभयसुत्तवण्णना
८०. दसमे पञ्चविधेन संसग्गेनाति ‘‘सवनसंसग्गो, दस्सनसंसग्गो, समुल्लापसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गो’’ति एवं वुत्तेन पञ्चविधेन संसग्गेन. संसज्जति एतेनाति संसग्गो, रागो. सवनहेतुको, सवनवसेन वा पवत्तो संसग्गो सवनसंसग्गो. एस नयो सेसेसुपि. कायसंसग्गो पन कायपरामासो. तेसु परेहि वा कथियमानं रूपादिसम्पत्तिं अत्तना वा सितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम. विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नो रागो दस्सनसंसग्गो नाम. अञ्ञमञ्ञआलापसल्लापवसेन उप्पन्नरागो समुल्लापसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं, भिक्खुनिया भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. हत्थग्गाहादिवसेन उप्पन्नो रागो कायसंसग्गो नाम.
अनेकविहितन्ति अन्नसन्निधिपानसन्निधिवत्थसन्निधियानसन्निधिसयनसन्निधिगन्धसन्निधि- आमिससन्निधिवसेन अनेकप्पकारं. सन्निधिकतस्साति एतेन ‘‘सन्निधिकारपरिभोग’’न्ति (ध. स. तिकमातिका १०) एत्थ कार-सद्दस्स कम्मत्थतं दस्सेति. यथा वा ‘‘आचयं गामिनो’’ति वत्तब्बे अनुनासिकलोपेन ‘‘आचयगामिनो’’ति निद्देसो कतो, एवं ‘‘सन्निधिकारं परिभोग’’न्ति वत्तब्बे अनुनासिकलोपेन ‘‘सन्निधिकारपरिभोग’’न्ति वुत्तं, सन्निधिं कत्वा परिभोगन्ति अत्थो.
‘‘सन्निधिकतस्स परिभोग’’न्ति एत्थ (दी. नि. अट्ठ. १.१२) पन दुविधा कथा विनयवसेन सल्लेखवसेन च. विनयवसेन ताव यं किञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारं होति, तस्स परिभोगे पाचित्तियं. अत्तना लद्धं पन सामणेरानं दत्वा तेहि लद्धं वा पापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति. पानसन्निधिम्हिपि एसेव नयो. वत्थसन्निधिम्हि अनधिट्ठिताविकप्पितं सन्निधि च होति, सल्लेखञ्च कोपेति. अयं निप्परियायकथा. परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं, चतुत्थं लभित्वा अञ्ञस्स दातब्बं. सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति. चीवरे पन अप्पहोन्ते, सतिया वा पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति. सूचिसुत्तचीवरकारकानं अलाभे ततोपि विनयकम्मं कत्वा ठपेतुं वट्टति ‘‘इमस्मिं जिण्णे पुन ईदिसं कुतो लभिस्सामी’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति.
यानसन्निधिम्हि यानं नाम वय्हं रथो सकटं सन्दमानिका पाटङ्कीति. न पनेतं पब्बजितस्स यानं, उपाहनं पन यानं. एकभिक्खुस्स हि एको अरञ्ञवासत्थाय, एको धोतपादकत्थायाति उक्कंसतो द्वे उपाहनसङ्घाटका वट्टन्ति, ततियं लभित्वा अञ्ञस्स दातब्बो. ‘‘इमस्मिं जिण्णे अञ्ञं कुतो लभिस्सामी’’ति ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति. सयनसन्निधिम्हि सयनन्ति मञ्चो. एकस्स भिक्खुनो एको सयनगब्भे, एको दिवाट्ठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति. ततो उत्तरिं लभित्वा अञ्ञस्स भिक्खुनो, गणस्स वा दातब्बो, अदातुं न वट्टति, सन्निधि चेव होति, सल्लेखो च कुप्पति. गन्धसन्निधिम्हि भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे सति गन्धा वट्टन्ति. गन्धत्थिकेन गन्धञ्च आहरापेत्वा तस्मिं रोगे वूपसन्ते अञ्ञेसं वा आबाधिकानं दातब्बं, द्वारे पञ्चङ्गुलिघरधूपनादीसु वा उपनेतब्बं. ‘‘पुन रोगे सति भविस्सती’’ति ठपेतुं न वट्टति, गन्धसन्निधि च होति, सल्लेखञ्च कोपेति.
आमिसन्ति वुत्तावसेसं दट्ठब्बं. सेय्यथिदं – इधेकच्चो भिक्खु ‘‘तथारूपे काले उपकाराय भविस्सन्ती’’ति तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छसप्पितेलकुलालभाजनादीनि आहरापेत्वा ठपेति. सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा परिभुञ्जित्वा ‘‘सामणेर उदककद्दमे दुक्खं गामं पविसितुं, गच्छ असुककुलं गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि, असुककुलतो दधिआदीनि आहरा’’ति पेसेति. भिक्खूहि ‘‘किं, भन्ते, गामं पविसिस्सामा’’ति वुत्तेपि ‘‘दुप्पवेसो, आवुसो, इदानि गामो’’ति वदति. ते ‘‘होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा’’ति गच्छन्ति. अथ सामणेरो दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापमनापं भुञ्जति. अथ भिक्खू पिण्डपातं गहेत्वा आगच्छन्ति, ततोपि मनापमनापं भुञ्जतियेव. एवं चतुमासम्पि वीतिनामेति. अयं वुच्चति भिक्खु मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविकन्ति. एवरूपो आमिससन्निधि नाम होति. भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि एको गुळपिण्डो कुडुवमत्तं सप्पीति एत्तकं निधेतुं वट्टति अकाले सम्पत्तचोरानं अत्थाय. ते हि एत्तकं आमिसपटिसन्थारं अलभन्ता जीविता वोरोपेय्युं, तस्मा सचे हि एत्तकं नत्थि, आहरापेत्वापि ठपेतुं वट्टति. अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति. कप्पियकुटियं पन बहुं ठपेन्तस्सपि सन्निधि नाम नत्थि.
चतुत्थअनागतभयसुत्तवण्णना निट्ठिता.
योधाजीववग्गवण्णना निट्ठिता.