५-६. पुञ्ञाभिसन्दसुत्तादिवण्णना
४५-४६. पञ्चमे असङ्खेय्योति आळ्हकगणनाय असङ्खेय्यो. योजनवसेन पनस्स सङ्खा अत्थि हेट्ठा महापथविया उपरि आकासेन परिसमन्ततो चक्कवाळपब्बतेन मज्झे तत्थ तत्थ ठितकेहि दीपपब्बतपरियन्तेहि परिच्छिन्नत्ता जानन्तेन योजनतो सङ्खातुं सक्काति कत्वा. महासरीरमच्छकुम्भीलयक्खरक्खसमहानागदानवादीनं सविञ्ञाणकानं बलवामुखपातालादीनं अविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवं. पुथूति बहू. सवन्तीति सन्दमाना. उपयन्तीति उपगच्छन्ति. छट्ठं उत्तानमेव.
पुञ्ञाभिसन्दसुत्तादिवण्णना निट्ठिता.