३-४. उपक्किलेससुत्तादिवण्णना

२३-२४. ततिये न च पभावन्तन्ति न च पभासम्पन्नं. पभिज्जनसभावन्ति तापेत्वा ताळकज्जनपभङ्गुरं. अवसेसं लोहन्ति वुत्तावसेसं सजातिलोहं, विजातिलोहं, पिसाचलोहं, कित्तिमलोहन्ति एवंपभेदं सब्बम्पि लोहं. उप्पज्जितुं अप्पदानेनाति एत्थ ननु लोकियकुसलचित्तस्सपि सुविसुद्धस्सपि उप्पज्जितुं अप्पदानेनेव उपक्किलेसताति? सच्चमेतं, यस्मिं पन सन्ताने नीवरणानि लद्धप्पतिट्ठानि, तत्थ महग्गतकुसलस्सपि असम्भवो, पगेव लोकुत्तरकुसलस्स. परित्तकुसलं पन यथापच्चयं उप्पज्जमानं नीवरणेहि उपहते सन्ताने उप्पत्तिया अपरिसुद्धं होन्तं उपक्किलिट्ठं नाम होति अपरिसुद्धदीपकपल्लिकवट्टितेलादिसन्निस्सयो पदीपो विय. अपिच निप्परियायतो उप्पज्जितुं अप्पदानेनेव तेसं उपक्किलेसताति दस्सेन्तो ‘‘यदग्गेन ही’’तिआदिमाह. आरम्मणे विक्खित्तप्पवत्तिवसेन चुण्णविचुण्णता वेदितब्बा. चतुत्थे नत्थि वत्तब्बं.

उपक्किलेससुत्तादिवण्णना निट्ठिता.