२. दोणब्राह्मणसुत्तवण्णना
१९२. दुतिये पवत्तारोति (दी. नि. टी. १.२८५) पावचनभावेन वत्तारो. यस्मा ते तेसं मन्तानं पवत्तनका, तस्मा आह ‘‘पवत्तयितारो’’ति. सुद्दे बहि कत्वा रहोभासितब्बट्ठेन मन्ता एव तंतंअत्थप्पटिपत्तिहेतुताय मन्तपदं. अनुपनीतासाधारणताय रहस्सभावेन वत्तब्बकिरियाय अधिगमूपायं. सज्झायितन्ति गायनवसेन सज्झायितं. तं पन उदत्तानुदत्तादीनं सरानं सम्पदावसेनेव इच्छितन्ति आह ‘‘सरसम्पत्तिवसेना’’ति. अञ्ञेसं वुत्तन्ति पावचनभावेन अञ्ञेसं वुत्तं. समुपब्यूळ्हन्ति सङ्गहेत्वा उपरूपरि सञ्ञूळ्हं. रासिकतन्ति इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतं. तेसन्ति मन्तानं कत्तूनं. दिब्बेन चक्खुना ओलोकेत्वाति दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादिं, पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसेन पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा. पावचनेन सह संसन्देत्वाति कस्सपसम्मासम्बुद्धस्स यं वचनं वट्टसन्निस्सितं, तेन सह अविरुद्धं कत्वा. न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खो होति. अपरापरेति अट्ठकादीहि अपरापरे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना. पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेसु किलेससन्निस्सितपदानं तत्थ तत्थ पदे पक्खिपनं कत्वा. विरुद्धे अकंसूति ब्राह्मणधम्मिकसुत्तादीसु (सु. नि. ब्राह्मणधम्मिकसुत्तं २८६ आदयो) आगतनयेन संकिलेसत्थदीपनतो पच्चनीकभूते अकंसु.
उसूनं असनकम्मं इस्सत्थं, धनुसिप्पेन जीविका. इध पन इस्सत्थं वियाति इस्सत्थं, सब्बआवुधजीविकाति आह ‘‘योधाजीवकम्मेना’’ति, आवुधं गहेत्वा उपट्ठानकम्मेनाति अत्थो. राजपोरिसं नाम विना आवुधेन पोरोहेच्चामच्चकम्मादिराजकम्मं कत्वा राजुपट्ठानं. सिप्पञ्ञतरेनाति गहितावसेसेन हत्थिअस्ससिप्पादिना. कुमारभावतो पभुति चरणेन कोमारब्रह्मचरियं.
उदकं पातेत्वा देन्तीति द्वारे ठितस्सेव ब्राह्मणस्स हत्थे उदकं आसिञ्चन्ता ‘‘इदं ते, ब्राह्मण, भरियं पोसापनत्थाय देमा’’ति वत्वा देन्ति. कस्मा पन ते एवं ब्रह्मचरियं चरित्वापि दारं परियेसन्ति, न यावजीवं ब्रह्मचारिनो होन्तीति? मिच्छादिट्ठिवसेन. तेसञ्ही एवं दिट्ठि होति ‘‘यो पुत्तं न उप्पादेति, सो कुलवंसच्छेदकरो होति, ततो निरये पच्चती’’ति. चत्तारो किर अभायितब्बं भायन्ति गण्डुप्पादको, किकी, कोन्तिनी, ब्राह्मणोति. गण्डुप्पादा किर महापथविया खयनभयेन मत्तभोजना होन्ति, न बहुं मत्तिकं खादन्ति. किकी सकुणिका आकासपतनभयेन अण्डस्स उपरि उत्ताना सेति. कोन्तिनी सकुणी पथवीकम्पनभयेन पादेहि भूमिं न सुट्ठु अक्कमति. ब्राह्मणा कुलवंसूपच्छेदभयेन दारं परियेसन्ति. आहु चेत्थ –
‘‘गण्डुप्पादो किकी चेव, कोन्ती ब्राह्मणधम्मिको;
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना’’ति. (सु. नि. अट्ठ. २.२९३);
सेसमेत्थ उत्तानमेव.
दोणब्राह्मणसुत्तवण्णना निट्ठिता.