१०. गवेसीसुत्तवण्णना

१८०. दसमे सुकारणन्ति बोधिपरिपाचनस्स एकन्तिकं सुन्दरं कारणं. मन्दहसितन्ति ईसकं हसितं. कहं कहन्ति हाससद्दस्स अनुकरणमेतं. हट्ठप्पहट्ठाकारमत्तन्ति हट्ठस्स पहट्ठाकारमत्तं. यथा गहितसङ्केता ‘‘पहट्ठो भगवा’’ति सञ्जानन्ति, एवं आकारनिदस्सनमत्तं.

इदानि इमिना पसङ्गेन हाससमुट्ठानं विभागतो दस्सेतुं ‘‘हसितञ्च नामेत’’न्तिआदि आरद्धं. तत्थ अज्झुपेक्खनवसेनपि हासो न सम्भवति, पगेव दोमनस्सवसेनाति आह ‘‘तेरसहि सोमनस्ससहगतचित्तेही’’ति. ननु च केचि कोधवसेनपि हसन्तीति? न, ते सम्पियन्ति कोधवत्थुं तत्थ ‘‘मयं दानि यथाकामकारितं आपज्जिस्सामा’’ति दुविञ्ञेय्यन्तरेन सोमनस्सचित्तेनेव हासस्स उप्पज्जनतो. तेसूति पञ्चसु सोमनस्ससहगतकिरियचित्तेसु. बलवारम्मणेति उळारतमे आरम्मणे यमकपाटिहारियसदिसे. दुब्बलारम्मणेति अनुळारआरम्मणे.

‘‘इमस्मिं पन ठाने…पे… उप्पादेती’’ति इदं पोराणट्ठकथायं तथा आगतत्ता वुत्तं, न सहेतुकसोमनस्ससहगतचित्तेहि भगवतो सितं न होतीति दस्सनत्तं. अभिधम्मटीकायं (ध. स. मूलटी. ९६८) पन ‘‘अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘इमेहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ती’तिआदिवचनतो (महानि. १५६; पटि. म. ३.५) ‘भगवतो इदं चित्तं उप्पज्जती’ति वुत्तवचनं विचारेतब्ब’’न्ति वुत्तं. तत्थ इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो. तथा हि अभिधम्मट्ठकथायं (ध. स. अट्ठ. ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्चेतं एवं इच्छितब्बं, अञ्ञथा आवज्जनचित्तस्सपि भगवतो तथारूपे काले न युज्जेय्य. तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स निच्छितत्ता. तथा हि वुत्तं ‘‘एवञ्च कत्वा मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकत्तं उपपन्नं होती’’ति (ध. स. मूलटी. १ कायकम्मद्वारकथावण्णना) न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठानकायविञ्ञत्तिया कायकम्मादिभावं आपज्जनभावो विस्सज्जतीति.

हसितन्ति सितमेव सन्धाय वदति. तेनाह ‘‘एवं अप्पमत्तकम्पी’’ति. समोसरिता विज्जुलता. सा हि इतरविज्जुलता विय खणट्ठितिया सीघनिरोधा च न होति, अपिच खो दन्धनिरोधा, न च सब्बकालिका. दीधिति पावकमहामेघतो वा चातुद्दीपिकमहामेघतो वा निच्छरति. तेनाह ‘‘चातुद्दीपिकमहामेघमुखतो’’ति. अयं किर तासं रस्मीनं धम्मता, यदिदं तिक्खत्तुं सीसं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधानं. सेसमेत्थ सुविञ्ञेय्यमेव.

गवेसीसुत्तवण्णना निट्ठिता.

उपासकवग्गवण्णना निट्ठिता.