७-१०. असप्पुरिसदानसुत्तादिवण्णना

१४७-१५०. सत्तमे असक्कच्चन्ति अनादरं कत्वा. देय्यधम्मस्स असक्कच्चकरणं नाम असम्पन्नं करोतीति आह ‘‘न सक्करित्वा सुचिं कत्वा देती’’ति, उत्तण्डुलादिदोसविरहितं सुचिसम्पन्नं कत्वा न देतीति अत्थो. अचित्तीकत्वाति न चित्ते कत्वा, न पूजेत्वाति अत्थो. पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, न ततो बहि करोति. चित्तं वा अच्छरियं कत्वा पटिपत्तिविकरणं सम्भावनकिरिया, तप्पटिक्खेपतो अचित्तीकरणं असम्भावनकिरिया. अगारवेन देतीति पुग्गले अगरुं करोन्तो निसीदनट्ठाने असम्मज्जित्वा यत्थ वा तत्थ वा निसीदापेत्वा यं वा तं वा आधारकं ठपेत्वा दानं देति. असहत्थाति न अत्तनो हत्थेन देति, दासकम्मकरोदीहि दापेति. अपविद्धं देतीति अन्तरा अपविद्धं विच्छेदं कत्वा देति. तेनाह ‘‘न निरन्तरं देती’’ति. अथ वा अपविद्धं देतीति उच्छिट्ठादिछड्डनीयधम्मं विय अवक्खित्तकं कत्वा देति. तेनाह ‘‘छड्डेतुकामो विय देती’’ति. ‘‘अद्धा इमस्स दानस्स फलमेव आगच्छती’’ति एवं यस्स कम्मस्सकतादिट्ठि अत्थि, सो आगमनदिट्ठिको, अयं पन न तादिसोति अनागमनदिट्ठिको. तेनाह ‘‘कतस्स नाम फलं आगमिस्सती’’तिआदि. अट्ठमादीसु नत्थि वत्तब्बं.

असप्पुरिसदानसुत्तादिवण्णना निट्ठिता.

तिकण्डकीवग्गवण्णना निट्ठिता.

ततियपण्णासकं निट्ठितं.