१०. दुतियसेखसुत्तवण्णना

९०. दसमे अतिपातोवाति सब्बरत्तिं निद्दायित्वा बलवपच्चूसे कोटिसम्मुञ्जनिया थोकं सम्मज्जित्वा मुखं धोवित्वा यागुभिक्खत्थाय पातोव पविसति. तं अतिक्कमित्वाति गिहिसंसग्गवसेन कालं वीतिनामेन्तो मज्झन्हिकसमयं अतिक्कमित्वा पक्कमति. पातोयेव हि गामं पविसित्वा यागुं आदाय आसनसालं गन्त्वा पिवित्वा एकस्मिं ठाने निपन्नो निद्दायित्वा मनुस्सानं भोजनवेलाय ‘‘पणीतभिक्खं लभिस्सामी’’ति उपकट्ठे मज्झन्हिके उट्ठाय धम्मकरणेन उदकं गहेत्वा अक्खीनि पुञ्छित्वा पिण्डाय चरित्वा यावदत्थं भुञ्जित्वा गिहिसंसट्ठो कालं वीतिनामेत्वा मज्झन्हे वीतिवत्ते पटिक्कमति.

अप्पिच्छकथाति, ‘‘आवुसो, अत्रिच्छता पापिच्छताति इमे धम्मा पहातब्बा’’ति तेसु आदीनवं दस्सेत्वा ‘‘एवरूपं अप्पिच्छतं समादाय वत्तितब्ब’’न्तिआदिनयप्पवत्ता कथा. तीहि विवेकेहीति कायविवेको, चित्तविवेको, उपधिविवेकोति इमेहि तीहि विवेकेहि. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरतीति अयं कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम. वुत्तम्पि हेतं – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). दुविधं वीरियन्ति कायिकं, चेतसिकञ्च वीरियं. सीलन्ति चतुपारिसुद्धिसीलं. समाधिन्ति विपस्सनापादका अट्ठ समापत्तियो. विमुत्तिकथाति वा अरियफलं आरब्भ पवत्ता कथा. सेसं उत्तानमेव.

दुतियसेखसुत्तवण्णना निट्ठिता.

थेरवग्गवण्णना निट्ठिता.