६. कुसिनारसुत्तवण्णना

७६. छट्ठे नगरं पविसितुकामा उय्यानतो उपेच्च वत्तन्ति गच्छन्ति एतेनाति उपवत्तनं. यथेव हि कलम्बनदितीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय पारिमतीरतो सालवनं उय्यानं, यथा अनुराधपुरस्स थूपारामो दक्खिणपच्छिमदिसाय, एवं तं उय्यानं कुसिनाराय दक्खिणपच्छिमदिसाय होति. यथा थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता, तस्मा तं ‘‘उपवत्तन’’न्ति वुच्चति. अन्तरेति द्विन्नं सालरुक्खानं वेमज्झे. तत्थ हि पञ्ञापियमानस्स मञ्चस्स एका सालपन्ति सीसभागे होति, एका पादभागे. तत्रपि एको तरुणसालो सीसभागस्स आसन्नो होति, एको पादभागस्स. अपिच यमकसाला नाम मूलखन्धविटपपत्तेहि अञ्ञमञ्ञं संसिब्बित्वा ठितसालातिपि वदन्ति.

द्वेळ्हकन्ति द्विधागाहो, अनेकंसग्गाहोति अत्थो. विमतीति संसयापत्तीति आह ‘‘विनिच्छितुं असमत्थता’’ति. तं वो वदामीति तं संसयवन्तं भिक्खुं सन्धाय वो तुम्हे वदामीति. निक्कङ्खभावपच्चक्खकरणन्ति बुद्धादीसु तेसं भिक्खूनं निक्कङ्खभावस्स पच्चक्खकारिया याथावतो तमत्थं पटिविज्झित्वा ठितं सब्बञ्ञुतञ्ञाणमेव. एत्थाति एतस्मिं अत्थे.

कुसिनारसुत्तवण्णना निट्ठिता.