८. देवदत्तसुत्तवण्णना

६८. अट्ठमे काले सम्पत्तेति गब्भस्स परिपाकगतत्ता विजायनकाले सम्पत्ते. पोतकन्ति अस्सतरिया पुत्तं. ‘‘फलं वे कदलिं हन्ती’’तिआदिगाथाय कुक्कुजकेनेव पत्तवट्टिपसवस्स उच्छिन्नत्ता फलुप्पत्ति कदलिया पराभवाय होतीति आह ‘‘फलं वे कदलिं हन्ती’’ति. कुक्कुजकं नाम कदलिया पुप्फनाळं. तथा फलपाकपरियोसानत्ता ओसधीनं ‘‘फलं वेळुं नळ’’न्ति वुत्तं. अयं पनेत्थ पिण्डत्थो – यथा अत्तनो फलं कदलिवेळुनळे विनासेति, गब्भो च अस्सतरिं, एवं अत्तनो कम्मभूतो सक्कारो असप्पुरिसं विनासेतीति.

देवदत्तसुत्तवण्णना निट्ठिता.