७-१०. सुप्पवासासुत्तादिवण्णना

५७-६०. सत्तमे आयुभागपटिलाभिनी होतीति आयुकोट्ठासस्स पटिलाभिनी होति. तिविधलोकन्ति सत्तसङ्खारभाजनसङ्खातं तिविधं लोकं. विदितं कत्वाति विभूतं कत्वा. लोकविदूनन्ति करणत्थे सामिवचनन्ति आह ‘‘बुद्धेहि पसत्था’’ति. अट्ठमनवमदसमानि उत्तानत्थानेव.

सुप्पवासासुत्तादिवण्णना निट्ठिता.

पुञ्ञाभिसन्दवग्गवण्णना निट्ठिता.