७. अपरिहानियसुत्तवण्णना

३७. सत्तमे निब्बानसन्तिकेयेव चरतीति किलेसनिब्बानस्स अनुपादापरिनिब्बानस्स च सन्तिकेयेव चरति ‘‘न चिरस्सेव अधिगमिस्सती’’ति कत्वा. गाथाय अप्पमादरतोति समथविपस्सनाय अप्पमज्जने रतो अभिरतो, अप्पमादेनेव रत्तिन्दिवं वीतिनामेन्तोति अत्थो. पमादं भयतो पस्सन्तोति निरयूपपत्तिआदिभयहेतुतो पमादं भयतो पस्सन्तो. अभब्बो परिहानायाति सो एवरूपो समथविपस्सनाधम्मेहि मग्गफलेहि वा परिहानाय अभब्बो. समथविपस्सनातो हि सम्पत्ततो न परिहायति, इतरानि च अप्पत्तानि पापुणातीति.

अपरिहानियसुत्तवण्णना निट्ठिता.