५. वस्सकारसुत्तवण्णना
३५. पञ्चमे अरिये ञायेति संकिलेसतो आरकत्ता अरिये निद्दोसे परिसुद्धे निय्यानिकधम्मभावतो ञाये कारणेति अत्थो. ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाती ञायो, अरियमग्गो. सो एव च सम्पापकहेतुभावतो कारणन्ति वुच्चति. इध पन सह विपस्सनाय अरियमग्गो अधिप्पेतोति आह ‘‘सहविपस्सनके मग्गे’’ति. गाथासु ‘‘ञायं धम्म’’न्ति एत्थापि एसेव नयो.
वस्सकारसुत्तवण्णना निट्ठिता.