८. अरियवंससुत्तवण्णना
२८. अट्ठमे वंस-सद्दो ‘‘पिट्ठिवंसं अतिक्कमित्वा निसीदती’’तिआदीसु द्विन्नं गोपानसीनं सन्धानट्ठाने ठपेतब्बदण्डके आगतो.
‘‘वंसो विसालो च यथा विसत्तो,
पुत्तेसु दारेसु च या अपेक्खा;
वंसक्कळीरोव असज्जमानो,
एको चरे खग्गविसाणकप्पो’’ति. –
आदीसु कट्ठके. ‘‘भेरिसद्दो मुदिङ्गसद्दो वंसतालसद्दो’’तिआदीसु तूरियविसेसे, वेणूतिपि वुच्चति. ‘‘भिन्नेन पिट्ठिवंसेन मतो हत्थी’’तिआदीसु हत्थिआदीनं पिट्ठिवेमज्झे पदेसे. ‘‘कुलवंसं ठपेस्सामी’’तिआदीसु कुलन्वये. ‘‘वंसानुरक्खको पवेणीपालको’’तिआदीसु गुणानुपुब्बियं गुणानं पबन्धप्पवत्तियं. इध पन चतुपच्चयसन्तोसभावनारामतासङ्खातगुणानं पबन्धे दट्ठब्बो. तस्स पन वंसस्स कुलन्वयं गुणन्वयञ्च निदस्सनवसेन दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ खत्तियवंसोति खत्तियकुलवंसो. एस नयो सेसपदेसुपि. समणवंसो पन समणतन्ति समणपवेणी. मूलगन्धादीनन्ति आदि-सद्देन यथा सारगन्धादीनं सङ्गहो, एवमेत्थ गोरसादीनम्पि सङ्गहो दट्ठब्बो, दुतियेन पन आदि-सदेन कासिकवत्थसप्पिमण्डादीनं.
अरिय-सद्दो अमिलक्खेसुपि मनुस्सेसु पवत्तति, येसं निवसनट्ठानं अरियं आयतनन्ति वुच्चति. यथाह ‘‘यावता, आनन्द, अरियं आयतन’’न्ति (दी. नि. २.१५२; उदा. ७६). लोकियसाधुजनेसुपि ‘‘ये हि वो अरिया परिसुद्धकायसमाचारा, तेसं अहं अञ्ञतरो’’तिआदीसु (म. नि. १.३५). इध पन ये ‘‘आरका किलेसेही’’तिआदिना लद्धनिब्बचना पटिविद्धअरियसच्चा, ते एव अधिप्पेताति दस्सेतुं ‘‘के पन ते अरिया’’ति पुच्छं कत्वा ‘‘अरिया वुच्चन्ती’’तिआदि वुत्तं. तत्थ ये महापणिधानकप्पतो पट्ठाय यावायं कप्पो, एत्थन्तरे उप्पन्ना सम्मासम्बुद्धा. ते ताव सरूपतो दस्सेत्वा तदञ्ञेपि सम्मासम्बुद्धे पच्चेकबुद्धे बुद्धसावके च सङ्गहेत्वा अनवसेसतो अरिये दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ याव सासनं अन्तरधायति, ताव सत्था धरति एव नामाति इममेव भगवन्तं. ये चेतरहि बुद्धसावका, ते च सन्धाय पच्चुप्पन्नग्गहणं. तस्मिं तस्मिं काले ते ते पच्चुप्पन्नाति चे, अतीतानागतग्गहणं न कत्तब्बं सिया.
इदानि यथा भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छ छक्कानी’’ति छछक्कदेसनाय (म. नि. ३.४२०) अट्ठहि पदेहि वण्णं अभासि. एवं महाअरियवंसदेसनाय अरियानं वंसं ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्ञा रत्तञ्ञा वंसञ्ञा पोराणा, असंकिण्णा असंकिण्णपुब्बा न संकीयन्ति न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्ञूही’’ति येहि नवहि पदेहि वण्णं अभासि, तानि ताव आनेत्वा थोमनावसेनेव वण्णेन्तो ‘‘ते खो पनेते’’तिआदिमाह. अग्गाति जानितब्बा सब्बवंसेहि सेट्ठभावतो सेट्ठभावसाधनतो च.
रत्तञ्ञा चिररत्ताति जानितब्बा रत्तञ्ञूहि बुद्धादीहि तेहि च तथा अनुट्ठितत्ता. वंसाति जानितब्बाति बुद्धादीनं अरियानं वंसाति जानितब्बा. पोराणाति पुरातना. न अधुनप्पत्तिकाति न अधुनातना. अविकिण्णाति न खित्ता न छड्डिता. तेनाह ‘‘अनपनीता’’ति. न अपनीतपुब्बाति न छड्डितपुब्बा, तिस्सन्नम्पि सिक्खानं परिपूरणूपायभावतो न परिच्चत्तपुब्बा. ततो एव इदानिपि न अपनीयन्ति, अनागतेपि न अपनीयिस्सन्तियेव. धम्मसभावस्स विजाननेन विञ्ञू. समितपापा समणा चेव बाहितपापा ब्राह्मणा च. तेहि अप्पटिकुट्ठा अप्पटिक्खित्ता. ये हि न पटिक्कोसितब्बा, ते अनिन्दितब्बा. अगरहितब्बा अपरिच्चजितब्बताय अप्पटिक्खिपितब्बा होन्तीति.
सन्तुट्ठोति एत्थ यथाधिप्पेतसन्तोसमेव दस्सेन्तेन पच्चयसन्तोसवसेन सन्तुट्ठोति वुत्तं, झानविपस्सनादिवसेनपि इध भिक्खुनो सन्तुट्ठता होतीति. इतरीतरेनाति इतरेन इतरेन. इतरसद्दो अनियमवचनो द्विक्खत्तुं वुच्चमानो यं-किञ्चिसद्देहि समानत्थो होतीति वुत्तं ‘‘येन केनची’’ति. स्वायं अनियमवाचिताय एव यथा थूलादीनं अञ्ञतरवचनो, एवं यथालद्धादीनम्पि अञ्ञतरवचनोति. तत्थ दुतियपक्खस्सेव इध इच्छितभावं दस्सेन्तो ‘‘अथ खो’’तिआदिमाह. ननु च यथालद्धादयोपि थूलादयो एव? सच्चमेतं, तथापि अत्थि विसेसो. यो हि यथालद्धेसु थूलादीसु सन्तोसो, सो यथालाभसन्तोसोव, न इतरो. न हि सो पच्चयमत्तसन्निस्सयो इच्छितो, अथ खो अत्तनो कायबलसारुप्पभावसन्निस्सयोपि. थूलदुकादयो तयोपि चीवरे लब्भन्ति, मज्झिमो चतुपच्चयसाधारणो, पच्छिमो पन चीवरे सेनासने च लब्भतीति दट्ठब्बं. इमे तयो सन्तोसेति इदं सब्बसङ्गाहिकनयेन वुत्तं. ये हि परतो गिलानपच्चयं पिण्डपाते एव पक्खिपित्वा चीवरे वीसति, पिण्डपाते पन्नरस, सेनासने पन्नरसाति समपञ्ञास सन्तोसा वुच्चन्ति, ते सब्बेपि यथारहं इमेसु एव तीसु सन्तोसेसु सङ्गहं समोसरणं गच्छन्तीति.
चीवरं जानितब्बन्ति ‘‘इदं नाम चीवरं कप्पिय’’न्ति जातितो चीवरं जानितब्बं. चीवरखेत्तन्ति चीवरस्स उप्पत्तिक्खेत्तं. पंसुकूलन्ति पंसुकूलचीवरं, पंसुकूललक्खणप्पत्तं चीवरं जानितब्बन्ति अत्थो. चीवरसन्तोसोति चीवरे लब्भमानो सब्बो सन्तोसो जानितब्बो. चीवरप्पटिसंयुत्तानि धुतङ्गानि जानितब्बानि, यानि गोपेन्तो चीवरसन्तोसेन सम्मदेव सन्तुट्ठो होतीति. खोमकप्पासिककोसेय्यकम्बलसाणभङ्गानि खोमादीनि. तत्थ खोमं नाम खोमसुत्तेहि वायितं खोमपट्टचीवरं. तथा सेसानिपि. साणन्ति साणवाकसुत्तेहि कतचीवरं. भङ्गन्ति पन खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा कतचीवरं. भङ्गम्पि वाकमयमेवाति केचि. छाति गणनपरिच्छेदो. यदि एवं इतो अञ्ञा वत्थजाति नत्थीति? नो नत्थि. सा पन एतेसं अनुलोमाति दस्सेतुं ‘‘दुकूलादीनी’’तिआदि वुत्तं. आदि-सद्देन पत्तुण्णं, सोमारपट्टं, चीनपट्टं, इद्धिजं, देवदिन्नन्ति तेसं सङ्गहो. तत्थ दुकूलं साणस्स अनुलोमं वाकमयत्ता. पत्तुण्णदेसे सञ्जातवत्थं पत्तुण्णं. ‘‘कोसेय्यविसेसो’’ति हि अभिधानकोसे वुत्तं. सोमारदेसे चीनदेसे च जातवत्थानि सोमारचीनपट्टानि. पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता. इद्धिजं एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं, तं खोमादीनं अञ्ञतरं होतीति तेसं एव अनुलोमं. देवताहि दिन्नचीवरं देवदिन्नं, तं कप्परुक्खे निब्बत्तं जालिनिया देवकञ्ञाय अनुरुद्धत्थेरस्स दिन्नवत्थसदिसं, तम्पि खोमादीनंयेव अनुलोमं होति तेसु अञ्ञतरभावतो.
इमानीति अन्तोगधावधारणवचनं, इमानि एवाति अत्थो. बुद्धादीनं परिभोगयोग्गताय कप्पियचीवरानि. इदानि अवधारणेन निवत्तितानि एकदेसेन दस्सेतुं ‘‘कुसचीर’’न्तिआदि वुत्तं. तत्थ कुसतिणेहि अञ्ञेहि वा तादिसेहि तिणेहि कतचीवरं कुसचीरं. अक्कवाकादीहि वाकेहि कतचीवरं वाकचीरं. चतुक्कोणेहि तिकोणेहि वा फलकेहि कतचीवरं फलकचीरं. मनुस्सानं केसेहि कतकम्बलं केसकम्बलं. चामरिवालअस्सवालादीहि कतं वालकम्बलं. मकचितन्तूहि वायितो पोत्थको. चम्मन्ति मिगचम्मादि यं किञ्चि चम्मं. उलूकपक्खेहि गन्थित्वा कतचीवरं उलूकपक्खं. भुजपत्ततचादिमयं रुक्खदुस्सं. तिरीटकन्ति अत्थो. सुखुमतराहि लताहि लतावाकेहि वा वायितं लतादुस्सं. एरकवाकेहि कतं एरकदुस्सं. तथा कदलिदुस्सं. सुखुमेहि वेळुविलीवेहि कतं वेळुदुस्सं. आदि-सद्देन वक्कलादीनं सङ्गहो. अकप्पियचीवरानि तित्थियद्धजभावतो.
अट्ठन्नं मातिकानं वसेनाति ‘‘सीमाय देति, कतिकाय देती’’तिआदिना (महाव. ३७९) आगतानं अट्ठन्नं चीवरुप्पत्तिमातिकानं वसेन. चीवरानं पटिलाभक्खेत्तदस्सनत्थञ्हि भगवता ‘‘अट्ठिमा, भिक्खवे, मातिका’’तिआदिना मातिका ठपिता. मातिकाति हि मातरो चीवरुप्पत्तिजनिकाति.
सोसानिकन्ति सुसाने पतितं. पापणिकन्ति आपणद्वारे पतितं. रथियन्ति पुञ्ञत्थिकेहि वातपानन्तरेन रथिकाय छड्डितचोळकं. सङ्कारकूटकन्ति सङ्कारट्ठाने छड्डितचोळकं. सिनानन्ति नहानचोळकं, यं भूतवेज्जेहि ससीसं नहायित्वा कालकण्णिचोळन्ति छड्डेत्वा गच्छन्ति. तित्थन्ति तित्थचोळं, सिनानतित्थे छड्डितपिलोतिका. अग्गिदड्ढन्ति अग्गिना दड्ढप्पदेसं. तञ्हि मनुस्सा छड्डेन्ति. गोखायितादीनि पाकटानेव. तानिपि हि मनुस्सा छड्डेन्ति. धजं उस्सापेत्वाति नावं आरोहन्तेहि वा युद्धं पविसन्तेहि वा धजयट्ठिं उस्सापेत्वा, तत्थ बद्धं वातेन आनीतं तेहि छड्डितन्ति अधिप्पायो.
सादकभिक्खुनाति गहपतिचीवरस्स सादियनभिक्खुना. एकमासमत्तन्ति चीवरमाससञ्ञितं एकमासमत्तं वितक्केतुं वट्टति, न ततो परन्ति अधिप्पायो. सब्बस्सपि हि तण्हानिग्गहत्था सासने पटिपत्तीति. पंसुकूलिको अद्धमासेनेव करोति अपरप्पटिबद्धत्ता पटिलाभस्स, इतरस्स पन परप्पटिबद्धत्ता मासमत्तं अनुञ्ञातं. इदं मासड्ढमासमत्तं…पे… वितक्कसन्तोसो वितक्केन्तस्स परिमितकालिकत्ता. महाथेरं तत्थ अत्तनो सहायं इच्छन्तोपि गरुगारवेन ‘‘गामद्वारं, भन्ते, गमिस्सामि’’इच्चेवाह. थेरोपि तस्स अज्झासयं ञत्वा ‘‘अहम्पावुसो, गमिस्सामी’’ति आह. ‘‘इमस्स भिक्खुनो वितक्कस्स अवसरो मा होतू’’ति पञ्हं पुच्छमानो गामं पाविसि. उच्चारपलिबुद्धोति उच्चारेन पीळितो. तदा भगवतो दुक्करकिरियानुस्सरणमुखेन तथागते उप्पन्नस्स पीतिसोमनस्सवेगस्स बलवभावेन किलेसानं विक्खम्भितत्ता तस्मिंयेव…पे… तीणि फलानि पत्तो.
कत्थ लभिस्सामीति चिन्तनापि लाभासापुब्बिकाति तथा ‘‘अचिन्तेत्वा’’ति वुत्तं. ‘‘सुन्दरं लभिस्सामि, मनापं लभिस्सामी’’तिएवमादिचिन्तनाय का नाम कथा, कथं पन गन्तब्बन्ति आह ‘‘कम्मट्ठानसीसेनेव गमन’’न्ति. तेन चीवरं पटिच्च किञ्चिपि न चिन्तेतब्बमेवाति दस्सेति. अपेसलो अप्पतिरूपायपि परियेसनाय पच्चयो भवेय्याति ‘‘पेसलं भिक्खुं गहेत्वा’’ति वुत्तं. आहरियमानन्ति सुसानादीसु पतितं वत्थं ‘‘इमे भिक्खू पंसुकूलपरियेसनं चरन्ती’’ति ञत्वा केनचि पुरिसेन ततो आनीयमानं. एवं लद्धं गण्हन्तस्सपीति एवं पटिलाभसन्तोसं अकोपेत्वा लद्धं गण्हन्तस्सपि. अत्तनोपहोनकमत्तेनेवाति यथालद्धानं पंसुकूलानं एकपट्टदुपट्टानं अत्थाय अत्तनो पहोनकप्पमाणेनेव. अवधारणेन उपरि पच्चासं निवत्तेति. गामे भिक्खाय आहिण्डन्तेन सपदानचारिना विय द्वारप्पटिपाटिया चरणं लोलुप्पविवज्जनं नाम लोलुप्पस्स दूरसमुस्सारितत्ता.
यापेतुन्ति अत्तभावं पवत्तेतुं. धोवनुपगेनाति धोवनयोग्गेन. पण्णानीति अम्बजम्बादिपण्णानि. अकोपेत्वाति सन्तोसं अकोपेत्वा. पहोनकनीहारेनेवाति अन्तरवासकादीसु यं कातुकामो, तस्स पहोनकनियामेनेव यथालद्धं थूलसुखुमादिं गहेत्वा करणं. तिमण्डलप्पटिच्छादनमत्तस्सेवाति निवासनं चे नाभिमण्डलं, जाणुमण्डलं, इतरञ्चे गलवाटमण्डलं, जाणुमण्डलन्ति तिमण्डलप्पटिच्छादनमत्तस्सेव करणं. तं पन अत्थतो तिण्णं चीवरानं हेट्ठिमन्तेन वुत्तपरिमाणंयेव होति. अविचारेत्वा न विचारेत्वा.
कुसिबन्धनकालेति मण्डलानि योजेत्वा सिब्बनकाले. सत्त वारेति सत्त सिब्बनवारे. कप्पबिन्दुअपदेसेन कस्सचि विकारस्स अकरणं कप्पसन्तोसो.
सीतप्पटिघातनादि अत्थापत्तितो सिज्झतीति मुख्यमेव चीवरपरिभोगे पयोजनं दस्सेतुं ‘‘हिरिकोपीनप्पटिच्छादनमत्तवसेना’’ति वुत्तं. तेनाह भगवा ‘‘यावदेव हिरिकोपीनप्पटिच्छादनत्थ’’न्ति (म. नि. १.२३; अ. नि. ६.५८; महानि. २०६). वट्टति, न तावता सन्तोसो कुप्पति सम्भारानं दक्खिणेय्यानं अलाभतो. सारणीयधम्मे ठत्वाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठत्वा. इतीतिआदिना पठमस्सेव अरियवंसस्स पंसुकूलिकङ्गतेचीवरिकङ्गानं तेसञ्चस्स पच्चयतं दस्सेन्तो ‘‘इति इमे धम्मा अञ्ञमञ्ञस्स समुट्ठापका उपत्थम्भका चा’’ति दीपेति. एस नयो इतो परेसु.
सन्तुट्ठो होति वण्णवादीति एत्थ चतुक्कोटिकं सम्भवति. तत्थ चतुत्थोयेव पक्खो वण्णितथोमितोति तथा देसना कता. एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति सेय्यथापि थेरो नाळको. एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति सेय्यथापि उपनन्दो सक्यपुत्तो. एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति सेय्यथापि थेरो लाळुदायि. एको सन्तुट्ठो चेव होति, सन्तोसस्स च वण्णं कथेति सेय्यथापि थेरो महाकस्सपो.
अनेसनन्ति अयुत्तं एसनं. तेनाह ‘‘अप्पतिरूप’’न्ति, सासने ठितानं अप्पतिरूपं अयोग्गं. कोहञ्ञं करोन्तोति चीवरुप्पादननिमित्तं परेसं कुहनं विम्हापनं करोन्तो. उत्तसतीति तण्हासन्तासेन उपरूपरि तसति. परितस्सतीति परितो तस्सति. यथा सब्बे कायवचिप्पयोगा तदत्था एव जायन्ति, एवं सब्बभागेहि तसति. गधितं वुच्चति गिद्धो, सो चेत्थ अभिज्झालक्खणो अधिप्पेतो. गधितं एतस्स नत्थीति अगधितोति आह ‘‘विगतलोभगिद्धो’’ति. मुच्छन्ति तण्हावसेन मुय्हनं. तस्स समुस्सयस्स अधिगतं अनापन्नो अनुपगतो. अनोत्थतो अनज्झोत्थतो. अपरियोनद्धोति तण्हच्छदनेन अच्छादितो. आदीनवं पस्समानोति दिट्ठधम्मिकं सम्परायिकञ्च दोसं पस्सन्तो. गधितपरिभोगतो निस्सरति एतेनाति निस्सरणं, इदमट्ठिकता. तं पजानातीति निस्सरणपञ्ञो. तेनाह ‘‘यावदेव…पे… जानन्तो’’ति.
नेवत्तानुक्कंसेतीति अत्तानं नेव उक्कंसेति न उक्खिपति न उक्कट्ठतो दहति. अहन्तिआदि उक्कंसनाकारदस्सनं. न वम्भेति न हीळेति न निहीनतो दहति. तस्मिं चीवरसन्तोसेति तस्मिं यथावुत्ते वीसतिविधे चीवरसन्तोसे. कामञ्चेत्थ वुत्तप्पकारसन्तोसग्गहणेनेव चीवरहेतु अनेसनापज्जनादिपि गहितमेव तस्मिं सति तस्स भावतो, असति च अभावतो. वण्णवादिताअत्तुक्कंसनपरवम्भनानि पन गहितानि न होन्तीति ‘‘वण्णवादादीसु वा’’ति विकप्पो वुत्तो. एत्थ च दक्खोतिआदि येसं धम्मानं वसेनस्स यथावुत्तसन्तोसादी इज्झन्ति, तंदस्सनं. तत्थ दक्खोति इमिना तेसं समुट्ठापनपञ्ञं दस्सेति. अनलसोति इमिना पग्गण्हनवीरियं, सम्पजानोति इमिना पारिहारियपञ्ञं, पटिस्सतोति इमिना तत्थ असम्मोसवुत्तिं दस्सेति.
पिण्डपातो जानितब्बोति पभेदतो पिण्डपातो जानितब्बो. पिण्डपातक्खेत्तन्ति पिण्डपातस्स उप्पत्तिट्ठानं. पिण्डपातसन्तोसो जानितब्बोति पिण्डपातसन्तोसप्पभेदो जानितब्बो. इध भेसज्जम्पि पिण्डपातगतिकमेव. आहरितब्बतो हि सप्पिआदीनम्पि गहणं कतं.
पिण्डपातक्खेत्तं पिण्डपातस्स उप्पत्तिट्ठानं खेत्तं विय खेत्तं. उप्पज्जति एत्थ, एतेनाति च उप्पत्तिट्ठानं. सङ्घतो वा हि भिक्खुनो पिण्डपातो उप्पज्जति उद्दिस्सवसेन वा. तत्थ सकलस्स सङ्घस्स दातब्बभत्तं सङ्घभत्तं. कतिपये भिक्खू उद्दिसित्वा उद्देसेन दातब्बभत्तं उद्देसभत्तं. निमन्तेत्वा दातब्बभत्तं निमन्तनं. सलाकाय दातब्बभत्तं सलाकभत्तं. एकस्मिं पक्खे एकदिवसं दातब्बभत्तं पक्खिकं. उपोसथे उपोसथे दातब्बभत्तं उपोसथिकं. पाटिपददिवसे दातब्बभत्तं पाटिपदिकं. आगन्तुकानं दातब्बभत्तं आगन्तुकभत्तं. धुरगेहे एव ठपेत्वा दातब्बभत्तं धुरभत्तं. कुटिं उद्दिस्स दातब्बभत्तं कुटिभत्तं. गामवासिआदीहि वारेन दातब्बभत्तं वारभत्तं. विहारं उद्दिस्स दातब्बभत्तं विहारभत्तं. सेसानि पाकटानेव.
वितक्केति ‘‘कत्थ नु खो अहं अज्ज पिण्डाय चरिस्सामी’’ति. ‘‘स्वे कत्थ पिण्डाय चरिस्सामा’’ति थेरेन वुत्ते ‘‘असुकगामे, भन्ते’’ति काममेतं पटिवचनदानं, येन पन चित्तेन चिन्तेत्वा तं वुत्तं, तं सन्धायाह ‘‘एत्तकं चिन्तेत्वा’’ति. ततो पट्ठायाति वितक्कमाळके ठत्वा वितक्कितकालतो पट्ठाय. ततो परं वितक्केन्तो अरियवंसा चुतो होतीति इदं तिण्णम्पि अरियवंसिकानं वसेन गहेतब्बं, न एकचारिकस्सेव. सब्बोपि हि अरियवंसिको एकवारमेव वितक्केतुं लभति, न ततो परं. परिबाहिरोति अरियवंसिकभावतो बहिभूतो. स्वायं वितक्कसन्तोसो कम्मट्ठानमनसिकारेन न कुप्पति विसुज्झति च. इतो परेसुपि एसेव नयो. तेनेवाह ‘‘कम्मट्ठानसीसेन गन्तब्ब’’न्ति. गहेतब्बमेवाति अट्ठानप्पयुत्तो एव-सद्दो. यापनमत्तमेव गहेतब्बन्ति योजेतब्बं.
एत्थाति एतस्मिं पिण्डपातप्पटिग्गहणे. अप्पन्ति अत्तनो यापनप्पमाणतोपि अप्पं गहेतब्बं दायकस्स चित्ताराधनत्थं. पमाणेनेवाति अत्तनो पमाणेनेव अप्पं गहेतब्बं. पमाणेन गहेतब्बन्ति एत्थ कारणं दस्सेतुं ‘‘पटिग्गहणस्मिञ्ही’’तिआदि वुत्तं. मक्खेतीति विद्धंसेति अपनेति. विनिपातेति विनासेति अट्ठानविनियोगेन. सासनन्ति सत्थुसासनं अनुसिट्ठिं न करोति न पटिपज्जति. सपदानचारिना विय द्वारपटिपाटिया चरणं लोलुप्पविवज्जनसन्तोसोति आह ‘‘द्वारपटिपाटिया गन्तब्ब’’न्ति.
हरापेत्वाति अधिकं अपनेत्वा. आहारगेधतो निस्सरति एतेनाति निस्सरणं. जिघच्छाय पटिविनोदनत्थं कता, कायस्स ठितिआदिपयोजनं पन अत्थापत्तितो आगतमेवाति आह ‘‘जिघच्छाय…पे… सन्तोसो नामा’’ति. निदहित्वा न परिभुञ्जितब्बं तदहुपीति अधिप्पायो. इतरत्थ पन सिक्खापदेनेव वारितं. सारणीयधम्मे ठितेनाति सीलवन्तेहि भिक्खूहि साधारणभोगिभावे ठितेन.
सेनासनेनाति सयनेन आसनेन च. यत्थ यत्थ हि मञ्चादिके विहारादिके च सेति, तं सेनं. यत्थ यत्थ पीठादिके आसति, तं आसनं. तदुभयं एकतो कत्वा ‘‘सेनासन’’न्ति वुत्तं. तेनाह ‘‘मञ्चो’’तिआदि. तत्थ मञ्चो मसारकादि. तथा पीठं. मञ्चभिसि, पीठभिसीति दुविधो भिसि. विहारो पाकारपरिच्छिन्नो सकलो आवासो, ‘‘दीघमुखपासादो’’ति केचि. अड्ढयोगो दीघपासादो, ‘‘एकपस्सच्छादनकसेनासन’’न्ति केचि. पासादोति चतुरस्सपासादो, ‘‘आयतचतुरस्सपासादो’’ति केचि. हम्मियन्ति मुण्डच्छदनपासादो. गुहाति केवला पब्बतगुहा. लेणं द्वारबन्धं. अट्टो बहलभित्तिकगेहं, यस्स गोपानसियो अग्गहेत्वा इट्ठकाहि एव छदनं होति, ‘‘अट्टलाकारेन करीयती’’तिपि वदन्ति. माळो एककूटसङ्गहितो अनेककोणो पटिस्सयविसेसो, ‘‘वट्टाकारेन कतसेनासन’’न्ति केचि.
पिण्डपाते वुत्तनयेनेवाति ‘‘सादको भिक्खु ‘अहं कत्थ वसिस्सामी’ति वितक्केती’’तिआदिना यथारहं पिण्डपाते वुत्तनयेनेव वेदितब्बा. ‘‘ततो परं वितक्केन्तो अरियवंसा चुतो होति परिबाहिरो, सेनासनं कुहिं लभिस्सामीति अचिन्तेत्वा कम्मट्ठानसीसेनेव गन्तब्ब’’न्ति च एवमादि सब्बं पुरिमनयेनेव.
कस्मा पनेत्थ पच्चयसन्तोसं दस्सेन्तेन भगवता गिलानपच्चयसन्तोसो न गहितोति? न खो पनेतं एवं दट्ठब्बन्ति दस्सेन्तो ‘‘गिलानपच्चयो पन पिण्डपाते एव पविट्ठो’’ति आह, आहरितब्बतासामञ्ञेनाति अधिप्पायो. यदि एवं तत्थापि पिण्डपाते विय वितक्कसन्तोसादयोपि पन्नरस सन्तोसा इच्छितब्बाति? नोति दस्सेन्तो आह ‘‘तत्था’’तिआदि. ननु चेत्थ द्वादसेव धुतङ्गानि विनियोगं गतानि, एकं पन नेसज्जिकङ्गं न कत्थचि विनियुत्तन्ति आह ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति. अयञ्च अत्थो अट्ठकथारुळ्हो एवाति दस्सेन्तो ‘‘वुत्तम्पि चेत’’न्तिआदिमाह.
पथविं पत्थरमानो वियातिआदि अरियवंसदेसनाय सुदुक्करभावदस्सनं महाविसयत्ता तस्सा देसनाय. यस्मा नयसहस्सपटिमण्डितं होति, अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना देसना चित्तुप्पादकण्डे अयञ्च भावनारामअरियवंसकथा अरियमग्गाधिगमाय वित्थारतो पवत्तियमाना एव होतीति वुत्तं ‘‘सहस्सनयपटिमण्डितं…पे… देसनं आरभी’’ति.
पटिपक्खविधमनतो अभिमुखभावेन रमणं आरमणं आरामोति आह ‘‘अभिरतीति अत्थो’’ति. ब्यधिकरणानम्पि पदानं वसेन भवति बाहिरत्थसमासो यथा ‘‘उरसिलोमो कण्ठेकाळो’’ति आह ‘‘भावनाय आरामो अस्साति भावनारामो’’ति. अभिरमितब्बट्ठेन वा आरामो, भावना आरामो अस्साति भावनारामोति एवम्पेत्थ समासयोजना वेदितब्बा. भावेन्तो रमतीति एतेन भावनारामसद्दानं कत्तुसाधनतं कम्मधारयसमासतञ्च दस्सेति. ‘‘पजहन्तो रमती’’ति वुत्तत्ता पहानारामोति एत्थापि एसेव नयो.
कामं ‘‘नेसज्जिकङ्गं भावनारामअरियवंसं भजती’’ति वुत्तं भावनानुयोगस्स अनुच्छविकत्ता, नेसज्जिकङ्गवसेन पन नेसज्जिकस्स भिक्खुनो एकच्चाहि आपत्तीहि अनापत्तिभावोति तम्पि सङ्गण्हन्तो ‘‘तेरसन्नं धुतङ्गान’’न्ति वत्वा विनयं पत्वा गरुके ठातब्बन्ति इच्छितत्ता सल्लेखस्स अपरिच्चजनवसेन पटिपत्ति नाम विनये ठितस्सेवाति आह ‘‘तेरसन्नं…पे… कथितं होती’’ति. कामं सुत्ताभिधम्मपिटकेसुपि तत्थ तत्थ सीलकथा आहटायेव, येहि पन गुणेहि सीलस्स वोदानं होति, तेसु कथितेसु यथा सीलकथाबाहुल्लं विनयपिटकं कथितं होति, एवं भावनाकथाबाहुल्लं सुत्तपिटकं अभिधम्मपिटकञ्च चतुत्थेन अरियवंसेन कथितेन कथितमेव होतीति वुत्तं ‘‘भावनारामेन अवसेसं पिटकद्वयं कथित’’न्ति. ‘‘सो नेक्खम्मं भावेन्तो रमती’’ति नेक्खम्मपदं आदिं कत्वा तत्थ देसनाय पवत्तत्ता सब्बेसम्पि वा समथविपस्सनामग्गधम्मानं यथासकं पटिपक्खतो निक्खमनेन नेक्खम्मसञ्ञितानं तत्थ आगतत्ता सो पाठो नेक्खम्मपाळीति वुच्चतीति आह ‘‘नेक्खमपाळिया कथेतब्बो’’ति. तेनाह अट्ठकथायं ‘‘सब्बेपि कुसला धमा, नेक्खम्मन्ति पवुच्चरे’’ति. दसुत्तरसुत्तन्तपरियायेनाति दसुत्तरसुत्तन्तधम्मेन (दी. नि. ३.३५० आदयो) दसुत्तरसुत्तन्ते आगतनयेनाति वा अत्थो. सेसपदद्वयेपि एसेव नयो.
सोति जागरियं अनुयुत्तो भिक्खु. नेक्खम्मन्ति कामेहि निक्खन्तभावतो नेक्खम्मसञ्ञितं पठमज्झानूपचारं, सो ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ. ५०८) आगतो. पठमज्झानस्स पुब्बभागभावना हि इधाधिप्पेता, तस्मा ‘‘अब्यापाद’’न्तिआदीसुपि एवमेव अत्थो वेदितब्बो. सउपायानञ्हि अट्ठन्नं समापत्तीनं अट्ठारसन्नं महाविपस्सनानं चतुन्नं अरियमग्गानञ्च वसेनेत्थ देसना पवत्ताति. तत्थ अब्यापादन्ति मेत्ता. आलोकसञ्ञन्ति विभूतं कत्वा मनसिकरणेन उपट्ठितआलोकसञ्जाननं. अविक्खेपन्ति समाधिं. धम्मववत्थानन्ति कुसलादिधम्मानं याथावनिच्छयं, ‘‘सपच्चयनामववत्थान’’न्तिपि वदन्ति. एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना वुत्तस्स पठमज्झानस्स पुब्बभागपटिपदाय भावनारामतं पहानारामतञ्च दस्सेत्वा इदानि सह उपायेन अट्ठसमापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं ‘‘ञाण’’न्तिआदिमाह. नामरूपपरिग्गहणकङ्खावितरणानञ्हि विबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञाय ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति. तथा झानसमापत्तीसु अनभिरतिनिमित्तेन पामोज्जेन तत्थ अनभिरतिया विनोदिताय झानादीनं समधिगमोति समापत्तिविपस्सनं अरतिविनोदनअविज्जापदालनउपायो. उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठानीवरणेसु सङ्गहदस्सनत्थन्ति दट्ठब्बं. किञ्चापि पठमज्झानूपचारेयेव दुक्खं, चतुत्थज्झानूपचारेयेव सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह ‘‘चतुत्थज्झानं सुखदुक्खे’’ति.
अनिच्चस्स, अनिच्चन्ति च अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय अनुपस्सनायेतं नामं. निच्चसञ्ञन्ति सङ्खतधम्मेसु निच्चा सस्सताति पवत्तं मिच्छासञ्ञं. सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बं. एस नयो इतो परेसुपि. निब्बिदानुपस्सनन्ति सङ्खारेसु निब्बिन्दनाकारेन पवत्तं अनुपस्सनं. नन्दिन्ति सप्पीतिकतण्हं. विरागानुपस्सनन्ति विरज्जनाकारेन पवत्तं अनुपस्सनं. निरोधानुपस्सनन्ति सङ्खारानं निरोधस्स अनुपस्सनं. ‘‘ते सङ्खारा निरुज्झन्तियेव, आयतिं समुदयवसेन न उप्पज्जन्ती’’ति एवं वा अनुपस्सना निरोधानुपस्सना. तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति नो समुदेती’’ति. मुच्चितुकामता हि अयं बलप्पत्ताति. पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना. पटिसङ्खा सन्तिट्ठना हि अयं. आदानन्ति निच्चादिवसेन गहणं. सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्ञा. आयूहनं अभिसङ्खरणं. अवत्थाविसेसापत्ति विपरिणामो. धुवसञ्ञन्ति थिरभावग्गहणं.
निमित्तन्ति समूहघनवसेन, सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहतं. पणिधिन्ति रागादिपणिधिं. सा पनत्थतो तण्हावसेन सङ्खारेसु निन्नता. अभिनिवेसन्ति अत्तानुदिट्ठि. अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्ञाधम्मविपस्सना. सारादानाभिनिवेसन्ति असारे सारन्ति गहणविपल्लासं. ‘‘इस्सरकुत्तादिवसेन लोको समुप्पन्नो’’ति अभिनिवेसो सम्मोहाभिनिवेसो. केचि पन ‘‘अहोसिं नु खो अहमतीतमद्धानन्तिआदिना (म. नि. १.१८; सं. नि. २.२०) पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति. सङ्खारेसु ताणलेणभावग्गहणं आलयाभिनिवेसो. ‘‘आलयरता आलयसम्मुदिता’’ति (दी. नि. २.६४, ६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७, ८) च वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिवेसवसेन पवत्तिया आलयाभिनिवेसोति केचि. एवं ठिता ते सङ्खारा पटिनिस्सज्जीयन्तीति पवत्तं ञाणं पटिसङ्खानुपस्सना. वट्टतो विगतत्ता विवट्टं निब्बानं, तत्थ आरम्मणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना गोत्रभु. संयोगाभिनिवेसन्ति संयुज्जनवसेन सङ्खारेसु निवेसनं. दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च. ओळारिकेति उपरिमग्गवज्झे किलेसे अपेक्खित्वा वुत्तं, अञ्ञथा दस्सनप्पहातब्बापि दुतियमग्गवज्झेहिपि ओळारिकाति. अणुसहगतेति अणुभूते. इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तं. सब्बकिलेसेति अवसिट्ठसब्बकिलेसे. न हि पठमादिमग्गेहिपि पहीना किलेसा पुन पहीयन्तीति.
एवन्ति पटिसम्भिदामग्गे (पटि. म. १.४१, ९५) नेक्खम्मपाळिया योजनं निगमेत्वा दीघनिकायेतिआदिना दसुत्तरपरियायेन (दी. नि. ३.३५० आदयो) योजनं दस्सेति. एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमतीति च नयिदं दसुत्तरसुत्ते (दी. नि. ३.३५० आदयो) आगतनियामेन वुत्तं, तत्थ पन ‘‘एको धम्मो भावेतब्बो, एको धम्मो पहातब्बो’’ति देसना आगता. एवं सन्तेपि यस्मा अत्थतो भेदो नत्थि, तस्मा पटिसम्भिदामग्गे (पटि. म. १.४१, ९५) नेक्खम्मपाळियं आगतनीहारेनेव ‘‘एकं धम्मं भावेन्तो रमति, एकं धम्मं पजहन्तो रमती’’ति वुत्तं. एस नयो सेसवारेसुपि.
एवन्तिआदिना दसुत्तरपरियायेन (दी. नि. ३.३५० आदयो) योजनं निगमेत्वा इदानि सतिपट्ठानसुत्तन्तपरियायेन (म. नि. १.१०५ आदयो) योजनं दस्सेतुं ‘‘मज्झिमनिकाये’’तिआदि आरद्धं. कामञ्चेत्थ कायानुपस्सनावसेनेव संखिपित्वा योजना कता, एकवीसतिया पन ठानानं वसेनपि योजना कातब्बा. इदानि अभिधम्मनिद्देसपरियायेन दस्सेतुं ‘‘अभिधम्मे निद्देसपरियायेना’’तिआदि आरद्धं. अनिच्चतोतिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गसंवण्णनासु (विसुद्धि. २.६९८; विसुद्धि. महाटी. २.६९८) वुत्तनयेन वेदितब्बं.
उक्कण्ठितन्ति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्कण्ठादिञ्च, अननुयोगोति अत्थो. अरियवंसपूरको धीरो सीलवा भिक्खु अरियवंसपरिपूरणस्स भेदं अनिच्छन्तो समाहितो विपस्सको च पच्चयघातेन अरतिया रतिया च सहिता अभिभविता होतीति वुत्तं ‘‘अरतिरतिसहो, भिक्खवे, धीरो’’ति. सेसं सुविञ्ञेय्यमेव.
अरियवंससुत्तवण्णना निट्ठिता.