१०. परिब्बाजकसुत्तवण्णना
३०. दसमे अभिञ्ञाताति एदिसो च एदिसो चाति अभिलक्खणवसेन ञाता. तेनाह ‘‘ञाता पाकटा’’ति. पटिसल्लाना वुट्ठितोति एत्थ पटिसल्लानन्ति तेहि तेहि सद्धिविहारिकअन्तेवासिकउपासकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च पटिनिवत्तित्वा अपसक्कित्वा सल्लीनं निलीयनं, एकीभावो पविवेकोति वुत्तं होति. यो ततो वुट्ठितो, सो पटिसल्लाना वुट्ठितो नाम होति. भगवा पन यस्मा पटिसल्लाना उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा वुत्तं ‘‘पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो’’ति. वत्थुकामेसूति रूपादीसु किलेसकामस्स वत्थुभूतेसु कामेसु. बहलरागन्ति थिरमूलदुम्मोचनीयताहि अज्झोसानेन बहलभूतं किलेसकामं. सकारणाति येहि कारणेहि परेसं वादे दोसं दस्सेन्ति, तेहि कारणेहि सकारणा. न हि लक्खणयुत्तेन हेतुना विना परवादेसु दोसं दस्सेतुं सक्का.
एवमादीति एत्थ आदिसद्देन ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी. नि. १.१६८) एवमादिं सङ्गण्हाति, तस्मा एवमादिवादिनो एवं हेतुप्पटिक्खेपवादिनोति अत्थो. एत्थ च नत्थिकदिट्ठि विपाकं पटिबाहति, अकिरियदिट्ठि कम्मं पटिबाहति, अहेतुकदिट्ठि उभयं पटिबाहति. तत्थ कम्मं पटिबाहन्तेन विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनपि कम्मं पटिबाहितं. इति सब्बेपेते अत्थतो उभयपटिबाहका अहेतुवादा चेव अकिरियवादा च नत्थिकवादा च होन्ति.
ओक्कन्तनियमाति ओगाळ्हमिच्छत्तनियमा. सज्झायतीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठति. वीमंसतीति तस्स अत्थं विचारेति. तस्सातिआदि वीमंसनाकारदस्सनं. तस्मिं आरम्मणेति यथापरिकप्पितहेतुपच्चयाभावादिके नत्थि हेतूतिआदिनयप्पवत्ताय लद्धिया आरम्मणे. मिच्छासति सन्तिट्ठतीति ‘‘नत्थि हेतू’’तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्ठिते चिरकालपरिचयेन एवमेतन्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथेव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समानीयमाना मिच्छावायामोपत्थम्भिता अतंसभावं तंसभावन्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति. चित्तं एकग्गं होतीति यथावुत्तवितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्ठितताय अनेकग्गतं पहाय चित्तं एकग्गं अप्पितं विय होति मिच्छासमाधिना. सोपि हि पच्चयविसेसेन लद्धभावनाबलो कदाचि समाधानपटिरूपकिच्चकरो होतियेव पहरणविज्झनादीसु वियाति दट्ठब्बं.
जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त जवनानि जवन्ति. पठमजवने सतेकिच्छो होति, तथा दुतियादीसूति धम्मसभावदस्सनमेतं, न पन तस्मिं खणे तेसं सतेकिच्छभावापादनं केनचि सक्का कातुं. तत्थाति तेसु तीसु मिच्छादस्सनेसु. कोचि एकं दस्सनं ओक्कमतीति यस्स एकस्मिंयेव अभिनिवेसो आसेवना पवत्ता, सो एकंयेव दस्सनं ओक्कमति. यस्स द्वीसु तीसुपि वा अभिनिवेसो आसेवना पवत्ता, सो द्वे तीणि ओक्कमति. एतेन या पुब्बे उभयपटिबाहिकतामुखेन पवत्ता अत्थसिद्धा सब्बदिट्ठिका, सा पुब्बभागिया, मिच्छानियामोक्कन्तिया पन यथासकं पच्चयसमुदागमदिट्ठितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुप्पत्तिया अभिकिण्णा एवाति दस्सेति. एकस्मिं ओक्कन्तेपि द्वीसु तीसु ओक्कन्तेसुपि नियतमिच्छादिट्ठिकोव होतीति इमिना तिस्सन्नम्पि दिट्ठीनं समानफलतं समानबलञ्च दस्सेति. तस्मा तिस्सोपि चेतना एकस्स उप्पन्ना अञ्ञमञ्ञं अनुबलप्पदायिका होन्ति.
किं पनेस एतस्मिञ्ञेव अत्तभावे नियतो, उदाहु अञ्ञस्मिम्पीति? एतस्मिञ्ञेव नियतो. अकुसलञ्हि नामेतं अबलं, न कुसलं विय महाबलं. अञ्ञथा सम्मत्तनियामो विय अच्चन्तिको सिया, आसेवनवसेन पन भवन्तरेपि तं तं दिट्ठिं रोचेतियेव. तेनेवाह ‘‘वट्टखाणुको नामेस सत्तो’’ति. तस्मा ‘‘सकिं निमुग्गो निमुग्गो एव बालो’’ति विय वट्टखाणुजोतना, यादिसेहि पन पच्चयेहि अयं तं दस्सनं ओक्कन्तो पुन कदाचि मिच्छत्तनियामो तप्पटिक्खेपपच्चये पटिच्च ततो सीसुक्खेपनमस्स न होतीति न वत्तब्बं. तेन वुत्तं ‘‘येभुय्येना’’ति. एदिसाति ‘‘बुद्धानम्पि अतेकिच्छा’’तिआदिना वुत्तसदिसा.
अत्तनो निन्दाभयेनाति ‘‘सम्मा दिट्ठिञ्च नाम ते गरहन्ती’’तिआदिना अत्तनो उपरि परेहि वत्तब्बनिन्दाभयेन. घट्टनभयेनाति तथा परेसं अपसादनभयेन. सहधम्मेन परेन अत्तनो उपरि कातब्बनिग्गहो उपारम्भो, ततो परित्तासो उपारम्भभयं. तं पन अत्थतो उपवादभयं होतीति आह ‘‘उपवादभयेना’’ति. पटिप्पस्सद्धिवसेन अभिज्झा विनयति एतेनाति अभिज्झाविनयो, अरहत्तफलं. तेनाह ‘‘अभिज्झाविनयो वुच्चति अरहत्त’’न्ति.
परिब्बाजकसुत्तवण्णना निट्ठिता.
उरुवेलवग्गवण्णना निट्ठिता.