५. वप्पसुत्तवण्णना

१९५. पञ्चमे पिहितत्ताति अकुसलस्स पवेसनद्वारं पिदहित्वा ठितत्ता. कायेन संवरितब्बञ्हि अपिहितेन द्वारेन पवत्तनकं पापधम्मं संवरित्वा ठितो कायेन संवुतो नाम. खयविरागेनाति अच्चन्तखयसङ्खातेन विरज्जनेन, अनुप्पादनिरोधेनाति अत्थो. किं विज्जा पुब्बे उप्पन्नाति? उभयमेतं न वत्तब्बं. पहानाभिसमयभावनाभिसमयानं अभिन्नकालत्ता पदीपुज्जलनेन अन्धकारं विय विज्जुप्पादेन अविज्जा निरुद्धाव होति, वत्तब्बं वा हेतुफलत्तमुपचारवसेन. यथा हि पदीपुज्जलनहेतुको अन्धकारविगमो, एवं विज्जुप्पादहेतुको अविज्जानिरोधो. हेतुफलधम्मा च समानकालापि पुब्बापरकाला विय वोहरीयन्ति यथा ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.४००; ३.४२१, ४२५, ४२६; सं. नि. २.४३-४४; २.४.६०; कथा. ४६५, ४६७) पच्चयादानुप्पज्जनकिरिया. चित्तस्स कायस्स च विहननतो विघातो, दुक्खं. परिदहनतो परिळाहो.

निच्चविहाराति सब्बदा पवत्तनकविहारा. ठपेत्वा हि समापत्तिवेलं भवङ्गवेलञ्च खीणासवा इमिना छळङ्गुपेक्खाविहारेन सब्बकालं विहरन्ति. चक्खुना रूपं दिस्वाति चक्खुविञ्ञाणेन रूपं दिस्वा. चक्खुना रूपं दिस्वाति हि निस्सयवोहारेन वुत्तं. ससम्भारकथा हेसा यथा ‘‘धनुना विज्झती’’ति, तस्मा निस्सयसीसेन निस्सितस्स गहणं दट्ठब्बं. रागवसेन न सोमनस्सजातो होतीति गेहसितपेमवसेनपि जवनक्खणे सोमनस्सजातो न होति मग्गेन समुच्छिन्नत्ता, न दोमनस्सजातो पसादञ्ञथत्तवसेनपि. उपेक्खको मज्झत्तो हुत्वा विहरतीति असमपेक्खनेन मोहं अनुप्पादेन्तो ञाणुपेक्खावसेनेव उपेक्खको विहरति मज्झत्तो. खीणासवो हि इट्ठेपि अनिट्ठेपि मज्झत्तेपि आरम्मणे यो असमपेक्खनेन समसमा अयोनिसोगहणे अखीणासवानं मोहो उप्पज्जति, तं अनुप्पादेन्तो मग्गेनेव तस्स समुग्घातितत्ता ञाणुपेक्खावसेनेव उपेक्खको विहरति, अयञ्चस्स पटिपत्ति सतिवेपुल्लपत्तिया पञ्ञावेपुल्लपत्तिया चाति वुत्तं ‘‘सतिसम्पजञ्ञपरिग्गहिताया’’ति.

एत्थ च ‘‘छसु द्वारेसु उपेक्खको विहरती’’ति इमिना छळङ्गुपेक्खा कथिता. ‘‘सम्पजानो’’ति वचनतो पन चत्तारि ञाणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो. ‘‘सततविहारा’’ति वचनतो अट्ठपि महाकिरियचित्तानि लब्भन्ति ञाणुप्पत्तिपच्चयरहितकालेपि पवत्तिजोतनतो. ‘‘अरज्जन्तो अदुस्सन्तो’’ति वचनतो हसितुप्पादवोट्ठब्बनेहि सद्धिं दस चित्तानि लब्भन्ति. अरज्जनादुस्सनवसेन पवत्ति हि तेसम्पि साधारणाति. ननु चेत्थ ‘‘उपेक्खको विहरती’’ति छळङ्गुपेक्खावसेन इमेसं सततविहारानं आगतत्ता सोमनस्सं कथं लब्भतीति? आसेवनतोति. किञ्चापि हि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्ते विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धप्पकतिभावाविजहनतो, कदाचि पन तथा चेतोभिसङ्खारभावे यं तं सभावतो इट्ठं आरम्मणं, तस्स याथावतो सभावग्गहणवसेनपि अरहतो चित्तं सोमनस्ससहगतं हुत्वा पवत्ततेव, तञ्च खो पुब्बासेवनवसेन.

कायोति (सं. नि. टी. २.२.५१) पञ्चद्वारकायो, सो अन्तो अवसानं एतिस्साति कायन्तिका, तं कायन्तिकं. तेनाह – ‘‘याव पञ्चद्वारकायो पवत्तति, ताव पवत्त’’न्ति. जीवितन्तिकन्ति एत्थापि एसेव नयो. पच्छा उप्पज्जित्वाति एतस्मिं अत्तभावे मनोद्वारिकवेदनातो पच्छा उप्पज्जित्वा ततो पठमं निरुज्झति, ततो एव अत्थसिद्धमत्थं सरूपेनेव दस्सेतुं ‘‘मनोद्वारिकवेदना पठमं उप्पज्जित्वा पच्छा निरुज्झती’’ति वुत्तं. इदानि तमेव सङ्खेपेन वुत्तं विवरितुं ‘‘सा ही’’तिआदिमाह. याव तेत्तिंसवस्सानि पठमवयो. पञ्ञासवस्सकालेति पठमवयतो याव पञ्ञासवस्सकाला, ताव. ठिता होतीति वड्ढिहानियो अनुपगन्त्वा समरूपेनेव ठिता होति. मन्दाति मुदुका अतिखिणा. तदाति असीतिनवुतिवस्सकाले वदन्तेपि तथाचिरपरिचितेपीति अधिप्पायो. भग्गाति तेजोभग्गेन भग्गा दुब्बण्णा. हदयकोटिंयेवाति चक्खादिवत्थूसु अप्पवत्तित्वा तेसं आदिअन्तकोटिभूतं हदयवत्थुंयेव. तावाति याव वेदना वत्तति, ताव.

वापियाति महातळाकेन. पञ्चउदकमग्गसम्पन्नन्ति पञ्चहि उदकस्स पविसननिक्खमनमग्गेहि युत्तं. ततो ततो विस्सन्दमानं सब्बसो पुण्णत्ता. पठमं देवे वस्सन्तेतिआदि उपमासंसन्दनं. इमं वेदनं सन्धायाति इमं यथावुत्तं परियोसानप्पत्तं मनोद्वारिकवेदनं सन्धाय.

कायस्स भेदाति अत्तभावस्स विनासनतो. परतो अगन्त्वाति परलोकवसेन अगन्त्वा. वेदनानं सीतिभावो नाम सङ्खारदरथपरिळाहाभावो. सो पनायं सब्बसो अप्पवत्तिवसेनेवाति आह ‘‘अप्पवत्तनधम्मानि भविस्सन्ती’’ति.

अत्तभावं नासेतुकामस्स दळ्हं उप्पन्नं संवेगञाणं सन्धायाह ‘‘कुदालो विय पञ्ञा’’ति. ततो निब्बत्तितज्झानसमाधिं सन्धाय ‘‘पिटकं विय समाधी’’ति. तन्निस्साय पवत्तेतब्बविपस्सनारम्भञाणं सन्धाय ‘‘खनित्ति विय विपस्सना’’ति च वुत्तं. सेसमेत्थ उत्तानमेव.

वप्पसुत्तवण्णना निट्ठिता.