२. ठानसुत्तवण्णना
१९२. दुतिये संवासेनाति सहवासेन. सीलं वेदितब्बन्ति ‘‘अयं सुसीलो वा दुस्सीलो वा’’ति सह वसन्तेन उपसङ्कमन्तेन जानितब्बो. तञ्च खो दीघेन अद्धुना, न इत्तरन्ति तञ्च सीलं दीघेन कालेन वेदितब्बं, न इत्तरेन. द्वीहतीहञ्हि संयताकारो च संवुतिन्द्रियाकारो च न सक्का दस्सेतुं. मनसि करोताति तम्पि ‘‘सीलमस्स परिग्गहेस्सामी’’ति मनसिकरोन्तेन पच्चवेक्खन्तेनेव सक्का जानितुं, न इतरेन. पञ्ञवताति तम्पि सप्पञ्ञेनेव पण्डितेन. बालो हि मनसिकरोन्तोपि जानितुं न सक्कोति.
संवोहारेनाति अपरापरं कथनेन.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो’’ति. (म. नि. २.४५७; सु. नि. ६१९) –
एत्थ हि ब्यवहारो नाम. ‘‘चत्तारो अरियवोहारा, चत्तारो अनरियवोहारा’’ति (दी. नि. ३.३१३) एत्थ चेतना. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति (ध. स. १३१३-१३१५; महानि. ७३) एत्थ पञ्ञत्ति. ‘‘वोहारमत्तेन सो वोहरेय्या’’ति (सं. नि. १.२५) एत्थ कथावोहारो. इधापि एसोव अधिप्पेतो. एकच्चस्स हि सम्मुखाकथा परम्मुखाकथाय न समेति परम्मुखाकथा सम्मुखाकथाय. तथा पुरिमकथा पच्छिमकथाय, पच्छिमकथा च पुरिमकथाय. सो कथनेनेव सक्का जानितुं ‘‘असुचि एसो पुग्गलो’’ति. सुचिसीलस्स पन पुरिमं पच्छिमेन, पच्छिमञ्च पुरिमेन समेति. सम्मुखाकथितं परम्मुखाकथितेन समेति, परम्मुखाकथितञ्च सम्मुखाकथितेन, तस्मा कथनेन सक्का सुचिभावो जानितुन्ति पकासेन्तो एवमाह.
थामोति ञाणथामो. यस्स हि ञाणथामो नत्थि, सो उप्पन्नेसु उपद्दवेसु गहेतब्बं गहणं कत्तब्बं किच्चं अपस्सन्तो अद्वारकघरं पविट्ठो विय चरति. तेनाह ‘‘आपदासु, भिक्खवे, थामो वेदितब्बो’’ति.
साकच्छायाति संकथाय. दुप्पञ्ञस्स हि कथा उदके गेण्डु विय उप्पिलवति. पञ्ञवतो कथेन्तस्स पटिभानं अनन्तं होति. उदकविप्फन्दितेनेव हि मच्छो खुद्दको वा महन्तो वाति ञायति.
ञातिविनासोति चोररोगभयादीहि ञातीनं विनासो. भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगविनासोति अत्थो. तेनाह ‘‘दुतियपदेपि एसेव नयो’’ति. पञ्हुम्मग्गोति पञ्हगवेसनं, ञातुं इच्छितस्स अत्थस्स वीमंसनन्ति अत्थो. अतप्पकन्ति अतित्तिकरट्ठेन अतप्पकं सादुरसभोजनं विय. सण्हन्ति सुखुमसभावं.
ठानसुत्तवण्णना निट्ठिता.