४. अभयसुत्तवण्णना

१८४. चतुत्थे सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति, चित्तसन्तापेन अन्तो निज्झायतीति अत्थो. किलमतीति तस्सेव सोकस्स वसेन काये च उप्पन्नदुक्खेन किलमति. परिदेवतीति सोकुद्देहकवसेन तं तं विप्पलपन्तो वाचाय परिदेवति. उरत्ताळिन्ति उरत्ताळं, उरं ताळेत्वाति अत्थो. तेनाह ‘‘उरं ताळेत्वा’’ति. कङ्खाविचिकिच्छाति एत्थ ‘‘एकमेविदं पञ्चमं नीवरणं. किं नु खो इद’’न्ति आरम्मणं कङ्खनतो कङ्खा, ‘‘इदमेव वर’’न्ति निच्छेतुं असमत्थभावतो ‘‘विचिकिच्छा’’ति वुच्चति – ‘‘धम्मसभावं विचिनन्तो किच्छति, विगता चिकिच्छा’’ति वा कत्वा.

अभयसुत्तवण्णना निट्ठिता.