७. सोभनसुत्तवण्णना

७. सत्तमे पञ्ञावेय्यत्तियेनाति सच्चसम्पटिवेधादिपञ्ञावेय्यत्तियेन. विनयं उपेताति तदङ्गादिवसेन किलेसानं विनयं उपेता. वेसारज्जेनाति सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमनतो वेसारज्जेन, सारज्जरहितेनाति अत्थो. तेपिटकवसेन बहु सुतं एतेसन्ति बहुस्सुता. तमेव परियत्तिधम्मं धारेन्ति सुवण्णभाजने पक्खित्तसीहवसं विय विनस्सन्तं अकत्वा सुप्पगुणसुप्पवत्तिभावेन हदये ठपेन्तीति धम्मधरा. एदिसा च अत्तना सुतस्स धम्मस्स आधारभूता नाम होन्तीति आह ‘‘सुतधम्मानं आधारभूता’’ति.

सोभनसुत्तवण्णना निट्ठिता.