१०. योगसुत्तवण्णना

१०. दसमे योजेन्तीति कम्मं विपाकेन भवादिं, भवन्तरादीहि दुक्खेन सत्तं योजेन्ति घटेन्तीति योगा. कामनट्ठेन कामो च सो यथावुत्तेनत्थेन योगो चाति कामयोगो. भवयोगो नाम भवरागोति दस्सेतुं ‘‘रूपारूपभवेसू’’तिआदि वुत्तं. तत्थ पठमो उपपत्तिभवेसु रागो, दुतियो कम्मभवेसु, ततियो भवदिट्ठिसहगतो यथा रज्जनट्ठेन रागो, एवं युज्जनट्ठेन योगोति वुत्तो. चतूसु सच्चेसु अञ्ञाणन्ति इदं सुत्तन्तनयं निस्साय वुत्तं. सुत्तन्तसंवण्णना हेसाति, तदन्तोगधत्ता वा पुब्बन्तादीनं.

समुदयन्ति द्वे समुदया खणिकसमुदयो पच्चयसमुदयो च. उप्पादक्खणो खणिकसमुदयो, पच्चयोव पच्चयसमुदयो. समुदयते समुदयनं समुदयो, समुदेति एतस्माति समुदयोति एवं उभिन्नं समुदयानं सद्दत्थतोपि भेदो वेदितब्बो. पच्चयसमुदयं पजानन्तोपि भिक्खु खणिकसमुदयं पजानाति, खणिकसमुदयं पजानन्तोपि पच्चयसमुदयं पजानाति. पच्चयतो हि सङ्खारानं उदयं पस्सतो खणतो च नेसं उदयदस्सनं सुखं होति, खणतो च नेसं उदयं पस्सतो पगेव पच्चयानं सुग्गहितत्ता पच्चयतो दस्सनं सुखेन इज्झति. इध पन खणिकसमुदयं दस्सेन्तो आह ‘‘समुदयन्ति उप्पत्ति’’न्ति.

अत्थङ्गमोपि दुविधो अच्चन्तत्थङ्गमो, भेदत्थङ्गमोति. अच्चन्तत्थङ्गमो अप्पवत्तिनिरोधो, निब्बानन्ति केचि. भेदत्थङ्गमो खणिकनिरोधो. तदुभयं पुब्बभागे उग्गहपरिपुच्छादिवसेन पस्सतो अञ्ञतरदस्सनेन इतरदस्सनम्पि सिद्धमेव होति. पुब्बभागेयेव आरम्मणवसेन खयतो वयतो सम्मसनादिकाले भेदत्थङ्गमं पस्सन्तो ब्यतिरेकवसेन अनुस्सवादितो अच्चन्तत्थङ्गमं पस्सति, मग्गक्खणे पन आरम्मणतो अच्चन्तत्थङ्गमं पस्सन्तो असम्मोहतो इतरम्पि पस्सति. इध पन भेदत्थङ्गमं दस्सेन्तो आह ‘‘अत्थङ्गमन्ति भेद’’न्ति. कामानं उप्पत्तिभेदग्गहणेनेव चेत्थ यथा कामानं पटिच्चसमुप्पन्नता विभाविता, एवं कामवत्थुनोपीति उभयेसम्पि अनिच्चता दुक्खता अनत्तता च विभाविताति दट्ठब्बं. मधुरभावन्ति इमिना कामसन्निस्सितं सुखं सोमनस्सं दस्सेति. ‘‘यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म. नि. १.१६६) हि वुत्तं. अमधुरभावन्ति इमिना पन कामहेतुकं दुक्खं दोमनस्सं दस्सेति.

फस्सायतनानन्ति छद्वारिकस्स फस्सस्स कारणभूतानं चक्खादिआयतनानं. तेनाह ‘‘चक्खादीनं चक्खुसम्फस्सादिकारणान’’न्ति. पुनब्भवकरणं पुनोभवो उत्तरपदलोपेन, मनो-सद्दस्स विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. पुनोभवो सीलमेतेसन्ति पोनोभविका. अथ वा सीलत्थेन इकसद्देन गमितत्थत्ता किरियावाचकसद्दस्स अदस्सनं दट्ठब्बं यथा अपूपभक्खनसीलो आपूपिको. अथ वा पुनब्भवं देन्ति, पुनब्भवाय संवत्तन्ति, पुनप्पुनब्भवे निब्बत्तेन्तीति पोनोभविका. ‘‘तद्धिता’’ति हि बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता वा ‘‘पुनब्भवं देन्ती’’तिआदीसुपि अत्थेसु पोनोभविकसद्दसिद्धि दट्ठब्बा.

विसंयोजेन्ति पटिपन्नं पुग्गलं कामयोगादितो वियोजेन्तीति विसंयोगा, असुभज्झानादीनि विसंयोजनकारणानि. तेनाह ‘‘विसंयोगाति विसंयोजनकारणानी’’तिआदि.

योगसुत्तवण्णना निट्ठिता.

भण्डगामवग्गवण्णना निट्ठिता.