३-४. महाकोट्ठिकसुत्तादिवण्णना

१७३-४. ततिये फस्सायतनानन्ति एत्थ आकरट्ठो आयतनसद्दोति आह ‘‘फस्साकरान’’न्तिआदि. ‘‘सुवण्णायतनं, रजतायतन’’न्तिआदीसु आकरोपि ‘‘आयतन’’न्ति वुत्तो, सञ्जातिसमोसरणादिवसेनपि आयतनट्ठो लब्भतियेव. मा-इति पटिसेधे निपातो. स्वायं छन्नं फस्सायतनानं असेसं विरागनिरोधा अत्थञ्ञं वचनं किञ्चीति सन्धायाहाति आह ‘‘मा भणीति अत्थो’’ति. पञ्चफस्सायतनानि निरुद्धानीति चक्खादीनञ्च तत्थ अभावं सन्धाय वदति. छट्ठस्साति मनायतनस्स. चतुत्थे नत्थि वत्तब्बं.

महाकोट्ठिकसुत्तादिवण्णना निट्ठिता.