६-८. कप्पसुत्तादिवण्णना
१५६-१५८. छट्ठे संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथा ठायी संवट्टट्ठायी. विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो. ‘‘तेजोसंवट्टो, आपोसंवट्टो, वायोसंवट्टोति एवं संवट्टसीमानुक्कमेन संवट्टेसु वत्तब्बेसु तथा अवत्वा आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति वचनं संवट्टमहाभूतदेसनानुपुब्बिया’’ति केचि. ‘‘भावीसंवट्टानुपुब्बिया’’ति अपरे. आपेन संवट्टो आपोसंवट्टो. संवट्टसीमाति संवट्टनमरियादा. संवट्टतीति विनस्सति. सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो. एकं बुद्धक्खेत्तं विनस्सतीति एत्थ बुद्धक्खेत्तं नाम तिविधं होति जातिक्खेत्तं, आणाक्खेत्तं, विसयक्खेत्तञ्च.
तत्थ जातिक्खेत्तं दससहस्सचक्कवाळपरियन्तं होति, तथागतस्स पटिसन्धिग्गहणादीसु कम्पति. आणाक्खेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) खन्धपरित्तं (अ. नि. ४.६७; चूळव. २५१) धजग्गपरित्तं (सं. नि. १.२४९) आटानाटियपरित्तं (दी. नि. ३.२७७-२७८) मोरपरित्तन्ति (जा. १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति. विसयक्खेत्तं अनन्तापरिमाणं, यं ‘‘यावता वा पनाकङ्खेय्या’’ति (अ. नि. ३.८१) वुत्तं. तत्थ यं यं तथागतो आकङ्खति, तं तं जानाति. एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति, तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेव होति, विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तञ्च एकतोव सण्ठहति. सेसमेत्थ विसुद्धिमग्गसंवण्णनासु (विसुद्धि. महाटी. २.४०४) वुत्तनयेनेव गहेतब्बं. सत्तमट्ठमानि उत्तानत्थानेव.
कप्पसुत्तादिवण्णना निट्ठिता.