१०. सुगतविनयसुत्तवण्णना

१६०. दसमे वळञ्जेन्तीति सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति च. अविगततण्हताय तं तं परिक्खारजातं बहुम्पि आदियन्तीति बहुला, ते एव बाहुलिका यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८). ते पन यस्मा पच्चयबहुलभावा युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘पच्चयबाहुल्लाय पटिपन्ना’’ति. सिथिलं गण्हन्तीति साथलिका, सिक्खाय आदरगारवाभावेन सिथिलं अदळ्हं गण्हन्तीति अत्थो. सिथिलन्ति च भावनपुंसकनिद्देसो, सिथिल-सद्देन वा समानत्थस्स साथलसद्दस्स वसेन साथलिकाति पदसिद्धि वेदितब्बा. अवगमनतोति अधोगमनतो, ओरम्भागियभावतोति अत्थो. निब्बीरियाति उज्झितुस्साहा तदधिगमाय आरम्भम्पि अकुरुमाना.

सुगतविनयसुत्तवण्णना निट्ठिता.

इन्द्रियवग्गवण्णना निट्ठिता.