८-१०. संवेजनीयसुत्तादिवण्णना
११८-१२०. अट्ठमे सद्धस्साति बुद्धादीसु पसन्नचित्तस्स वत्तसम्पन्नस्स, यस्स पातो वुट्ठाय चेतियङ्गणवत्तादीनि सब्बवत्तानि कतानेव पञ्ञायन्ति. दस्सनीयानीति दस्सनारहानि. संवेगो नाम सहोत्तप्पं ञाणं. अभिजातिट्ठानादीनिपि तस्स उप्पत्तिहेतूनि भवन्तीति सिक्खापेन्तो आह ‘‘संवेगजनकानी’’ति. ठानानीति कारणानि, पदेसट्ठानानि वा. नवमदसमानि सुविञ्ञेय्यानि.
संवेजनीयसुत्तादिवण्णना निट्ठिता.
केसिवग्गवण्णना निट्ठिता.