१-२. वलाहकसुत्तद्वयवण्णना
१०१-२. ततियपण्णासकस्स पठमे गज्जिताति थनिता. तत्थ गज्जित्वा नोवस्सनभावो नाम पापको. मनुस्सा हि यदा देवो गज्जति, तदा ‘‘सुवुट्ठिता भविस्सती’’ति बीजानि नीहरित्वा वपन्ति. अथ देवे अवस्सन्ते खेत्ते बीजानि खेत्तेयेव नस्सन्ति, गेहे बीजानि गेहेयेव नस्सन्तीति दुब्भिक्खं होति. नोगज्जित्वा वस्सनभावोपि पापको. मनुस्सा हि इमस्मिं काले ‘‘दुब्बुट्ठिका भविस्सती’’ति निन्नट्ठानेसुयेव वप्पं करोन्ति. अथ देवो वस्सित्वा सब्बबीजानि महासमुद्दं पापेति, दुब्भिक्खमेव होति. गज्जित्वा वस्सनभावो पन भद्दको. तदा हि सुभिक्खं होति. नोगज्जित्वा नोवस्सनभावो एकन्तपापकोव. भासिता होति नो कत्ताति ‘‘इदानि गन्थधुरं पूरेस्सामि, वासधुरं पूरेस्सामी’’ति कथेतियेव, न उद्देसं गण्हाति, न कम्मट्ठानं भावेति.
कत्ता होति नो भासिताति ‘‘गन्थधुरं पूरेस्सामि, वासधुरं वा’’ति न भासति, सम्पत्ते पन काले समत्तं सम्पादेति. इमिना नयेन इतरेपि वेदितब्बा. अथ वा सब्बं पनेतं पच्चयदायकेहेव कथितं. एको हि ‘‘असुकदिवसे नाम दानं दस्सामी’’ति सङ्घं निमन्तेति, सम्पत्ते काले नो करोति. अयं पुग्गलो पुञ्ञेन परिहायति, भिक्खुसङ्घो पन लाभेन परिहायति. अपरो सङ्घं अनिमन्तेत्वा सक्कारं कत्वा ‘‘भिक्खू आनेस्सामी’’ति न लभि, सब्बे अञ्ञत्थ निमन्तिता होन्ति. अयम्पि पुञ्ञेन परिहायति, सङ्घोपि लाभेन परिहायति. अपरो पठमं सङ्घं निमन्तेत्वा पच्छा सक्कारं कत्वा दानं देति, अयं किच्चकारी होति. अपरो नेव सङ्घं निमन्तेति, न दानं देति, अयं पापपुग्गलोति वेदितब्बो. दुतियं उत्तानमेव.
वलाहकसुत्तद्वयवण्णना निट्ठिता.