५-६. छवालातसुत्तादिवण्णना

९५-९६. पञ्चमे छवालातन्ति छवानं दड्ढट्ठाने अलातं. तेनेवाह ‘‘सुसाने अलात’’न्ति. मज्झट्ठाने गूथमक्खितन्ति पमाणेन अट्ठङ्गुलमत्तं द्वीसु ठानेसु आदित्तं मज्झे गूथमक्खितं. कट्ठत्थन्ति कट्ठेन कातब्बकिच्चं. सेसमेत्थ उत्तानमेव. छट्ठं उत्तानमेव.

छवालातसुत्तादिवण्णना निट्ठिता.