७. पुत्तसुत्तवण्णना
८७. सत्तमे म-कारो पदसन्धिकरो ‘‘अञ्ञमञ्ञ’’न्तिआदीसु विय. निच्चलसमणोति थिरसमणो. अभिसिञ्चितब्बोति अभिसेकोति कम्मसाधनो अभिसेकसद्दो. तेनाह ‘‘अभिसेकं कातुं युत्तो’’ति.
बाकुलत्थेरो वियाति थेरो हि महायसस्सी, तस्स पुत्तधीतरो नत्तुपनत्तका सुखुमसाटकेहि चीवरानि कारेत्वा रजापेत्वा समुग्गे पक्खिपित्वा पहिणन्ति. थेरस्स नहानकाले नहानकोट्ठके ठपेन्ति. थेरो तानि निवासेति चेव पारुपति च. तेनेवेतं वुत्तं.
खदिरवनमग्गे सीवलित्थेरो वियाति सत्थरि किर तं मग्गं पटिपन्ने देवता ‘‘अम्हाकं अय्यस्स सीवलित्थेरस्स सक्कारं करिस्सामा’’ति चिन्तेत्वा एकेकयोजने विहारं कारेत्वा एकयोजनतो उद्धं गन्तुं अदत्वा पातोव उट्ठाय दिब्बानि यागुआदीनि गहेत्वा ‘‘अम्हाकं अय्यो सीवलित्थेरो कहं निसिन्नो’’ति विचरन्ति. थेरो अत्तनो अभिहटं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दापेसि. एवं सत्था सपरिवारो तिंसयोजनिकं कन्तारं सीवलित्थेरस्स पुञ्ञफलं अनुभवमानोव अगमासि. तेनेवेतं वुत्तं.
अट्ठकनागरसुत्ते आनन्दत्थेरो वियाति अट्ठकनागरको किर गहपति थेरस्स धम्मदेसनाय पसीदित्वा पञ्चसतग्घनकं विहारं कारेत्वा अदासि. तं सन्धायेतं वुत्तं.
पिलिन्दवच्छत्थेरो वियाति थेरस्स किर इद्धानुभावेन पसन्ना मनुस्सा सप्पिआदीनि बहूनि भेसज्जानि अभिहरिंसु. पकतियापि च आयस्मा पिलिन्दवच्छो लाभी होति पञ्चन्नं भेसज्जानं, लद्धं लद्धं परिसाय विस्सज्जेति. तेनेतं वुत्तं ‘‘गिलानपच्चयं पिलिन्दवच्छत्थेरो विया’’ति.
तिण्णम्पि सन्निपातेन निब्बत्तानीति पित्तादीनं तिण्णम्पि विसमानं सन्निपातेन जातानि. अतिसीतादिभावेन उतूनं परिणामोति आह ‘‘अतिसीतअतिउण्हउतुतो जातानी’’ति. पुरिमउतुतो विसदिसो उतु उतुपरिणामो, ततो जातानि उतुपरिणामजानि, विसभागउतुतो जातानीति अत्थो. जङ्गलदेसवासीनञ्हि अनूपदेसे वसन्तानं विसभागोव उतु उप्पज्जति, अनूपदेसवासीनञ्च जङ्गलदेसेति. एवं मलयसमुद्दतीरादिवसेनपि उतुविसभागता उप्पज्जतियेव. ततो जातानि उतुपरिणामजानि नाम.
अत्तनो पकतिचरियानं विसमं कायस्स परिहरणवसेन विसमपरिहारजानि. तानि पन अच्चासनअतिट्ठानादिना वेदितब्बानीति आह ‘‘अच्चासनअतिट्ठानादिका’’ति. आदि-सद्देन महाभारवहणसुधाकोट्टनअदेसकालचरणादीनि सङ्गण्हाति. परस्स उपक्कमतो निब्बत्तानि ओपक्कमिकानि, अयं चोरोति वा पारदारिकोति वा गहेत्वा जण्णुककप्परमुग्गरादीहि निप्पोथनउपक्कमं पच्चयं कत्वा उप्पन्नानीति अत्थो. तेनाह ‘‘वधबन्धनादिउपक्कमेन निब्बत्तानी’’ति. केवलन्ति बाहिरं पच्चयं अनपेक्खित्वा केवलं, तेन विनाति अत्थो. तेनाह ‘‘पुब्बेकतकम्मविपाकवसेनेव जातानी’’ति.
पुत्तसुत्तवण्णना निट्ठिता.