४. निगण्ठसुत्तवण्णना

७५. चतुत्थे हंसवट्टकच्छन्नेनाति हंसवट्टकपरिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो. नत्थि एतस्स परिसेसन्ति अपरिसेसं. तेनाह ‘‘अप्पमत्तकम्पि असेसेत्वा’’ति. अपरिसेसधम्मजाननतो वा अपरिसेससङ्खातं ञाणदस्सनं पटिजानातीति एवम्पेत्थ अत्थो दट्ठब्बो. सततन्ति निच्चं. समितन्ति तस्सेव वेवचनन्ति आह ‘‘सततं समितन्ति सब्बकालं निरन्तर’’न्ति. अथ वा निच्चट्ठेन सतत-सद्देन अभिण्हप्पवत्ति जोतिता सियाति ‘‘समित’’न्ति वुत्तं. तेन निरन्तरप्पवत्तिं दस्सेतीति आह ‘‘सब्बकालं निरन्तर’’न्ति.

विसुद्धिसम्पापनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलिट्ठचित्तानं सत्तानं विसुद्धिपापनत्थाय. समतिक्कमनत्थायाति सोकस्स च परिदेवस्स च पहानत्थाय. अत्थं गमनत्थायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमनाय, निरोधायाति अत्थो. ञायति निच्छयेन कमति निब्बानं. तं वा ञायति पटिविज्झति एतेनाति ञायो, अरियमग्गोति आह ‘‘मग्गस्स अधिगमनत्थाया’’ति. अपच्चयनिब्बानस्स सच्छिकरणत्थायाति पच्चयरहितत्ता अपच्चयस्स असङ्खतस्स तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्चक्खतायाति वुत्तं होति. फुसित्वा फुसित्वाति पत्वा पत्वा. सेसमेत्थ सुविञ्ञेय्यमेव.

निगण्ठसुत्तवण्णना निट्ठिता.