१. छन्नसुत्तवण्णना

७२. ततियस्स पठमे छन्नपरिब्बाजकोति न नग्गपरिब्बाजको. बाहिरकसमयं लुञ्चित्वा हरन्तोति बाहिरकानं समयं निसेधेत्वा आपन्नो.

पञ्ञाचक्खुस्स विबन्धनतो अन्धं करोतीति अन्धकरणोति आह ‘‘यस्स रागो उप्पज्जती’’तिआदि. अचक्खुकरणोति असमत्थसमासोयं ‘‘असूरियपस्सानि मुखानी’’तिआदीसु वियाति आह ‘‘पञ्ञाचक्खुं न करोतीति अचक्खुकरणो’’ति. पञ्ञानिरोधिकोति अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देति, लोकियपञ्ञं पन अट्ठसमापत्तिपञ्चाभिञ्ञावसेन उप्पन्नम्पि समुच्छिन्दित्वा खिपतीति पञ्ञानिरोधिकोति एवम्पेत्थ अत्थो दट्ठब्बो. अनुप्पन्नानुप्पादउप्पन्नपरिहानिनिमित्तताय हि पञ्ञं निरोधेतीति पञ्ञानिरोधिको. विहनति विबाधतीति विघातो, दुक्खन्ति आह ‘‘दुक्खसङ्खातस्स विघातस्सा’’ति. किलेसनिब्बानन्ति इमिना असङ्खतनिब्बानमेव वदति. असङ्खतञ्हि निब्बानं नाम, तं पच्चक्खं कातुं न देतीति अनिब्बानसंवत्तनिको. लोकुत्तरमिस्सको कथितो पुब्बभागियस्सपि अरियमग्गस्स कथितत्ता.

छन्नसुत्तवण्णना निट्ठिता.