१०. उपोसथसुत्तवण्णना

७१. दसमे तदहूति एत्थ तस्मिं अहनीति अत्थोति आह ‘‘तस्मिं अहु उपोसथे’’ति. उपवसन्ति एत्थाति उपोसथो, उपोसथदिवसो. उपवसन्तीति च सीलेन वा अनसनेन वा खीरसायनादिविधिना वा उपेता हुत्वा वसन्तीति अत्थो. उपोसथदिवसे हि सासनिका सीलेन, बाहिरका सब्बसो आहारस्स अभुञ्जनेन खीरसायनमधुसायनादिविधिना वा उपेता हुत्वा विहरन्ति. सो पनेस उपोसथदिवसो अट्ठमिचातुद्दसिपन्नरसिभेदेन तिविधो, तस्मा सेसद्वयनिवारणत्थं ‘‘पन्नरसिकउपोसथदिवसे’’ति वुत्तं. ववस्सग्गत्थेति वचसायत्थे. दिवसद्दो दिवासद्दो विय दिवसपरियायो, तस्स विसेसनभावेन वुच्चमानो दिवासद्दो सविसेसेन दीपेतीति आह ‘‘दिवसस्स दिवा, मज्झन्हिके कालेति अत्थो’’ति. पटिच्छापेत्वाति सम्पटिच्छनं कारेत्वा. विपाकफलेनाति सदिसफलेन. न महप्फलो होति मनोदुच्चरितदुस्सील्येन उपक्किलिट्ठभावतो. विपाकानिसंसेनाति उद्रयफलेन. विपाकोभासेनाति पटिपक्खविगमजनितेन सभावसङ्खातेन विपाकोभासेन. न महाओभासो अपरिसुद्धभावतो. विपाकविप्फारस्साति विपाकवेपुल्लस्स.

नाहं क्वचनीतिआदिवचनस्स मिच्छाभिनिवेसवसेन पवत्तत्ता ‘‘इदं तस्स मुसावादस्मिं वदामी’’ति पाळियं वुत्तं, चतुकोटिकसुञ्ञतादस्सनवसेन पवत्तं पन अरियदस्सनमेवाति न तत्थ मुसावादो. वुत्तञ्हेतं –

‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति ‘नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, किस्मिञ्चि किञ्चनतत्थी’’’तिआदि (म. नि. ३.७०).

एत्थ हि चतुकोटिकसुञ्ञता कथिता. कथं? अरियो (विसुद्धि. २.७६०; म. नि. अट्ठ. ३.७०) हि नाहं क्वचनीति क्वचि अत्तानं न पस्सति, कस्सचि किञ्चनतस्मिन्ति अत्तनो अत्तानं कस्सचि परस्स किञ्चनभावे उपनेतब्बं न पस्सति, भातिट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने परिक्खारं मञ्ञित्वा उपनेतब्बं न पस्सतीति अत्थो. न च मम क्वचनीति एत्थ मम-सद्दं ताव ठपेत्वा क्वचनि परस्स च अत्तानं क्वचि न पस्सतीति अयमत्थो. इदानि मम-सद्दं आहरित्वा ‘‘मम किस्मिञ्चि किञ्चनतत्थी’’ति सो परस्स अत्तानं ‘‘मम किस्मिञ्चि किञ्चनभावेन अत्थी’’ति न पस्सति, अत्तनो भातिकट्ठाने भातरं, सहायट्ठाने सहायं, परिक्खारट्ठाने परिक्खारन्ति किस्मिञ्चि ठाने परस्स अत्तानं इमिना किञ्चनभावेन उपनेतब्बं न पस्सतीति अत्थो. एवमयं यस्मा नेव कत्थचि अत्तानं पस्सति, न तं परस्स किञ्चनभावे उपनेतब्बं पस्सति. न कत्थचि परस्स अत्तानं पस्सति, न परस्स अत्तानं अत्तनो किञ्चनभावे उपनेतब्बं पस्सति, तस्मा अयं सुञ्ञता चतुकोटिकाति वेदितब्बा.

यस्मा पन मिच्छादिट्ठिकानं याथावदस्सनस्स असम्भवतो यथावुत्तचतुकोटिकसुञ्ञतादस्सनं न सम्भवति, तस्मा ‘‘नत्थि माता, नत्थि पिता’’तिआदिवचनं (दी. नि. १.१७१) विय मिच्छागाहवसेन ‘‘नाहं क्वचनी’’तिआदि वुत्तन्ति युत्तो चेत्थ मुसावादसम्भवो. कत्थचीति ठाने, काले वा. अथ ‘‘निप्फलो’’ति कस्मा वुत्तं. ‘‘न महप्फलो’’ति सद्देन हि महप्फलाभावोव जोतितो, न पन सब्बथा फलाभावोति आह ‘‘ब्यञ्जनमेव हि एत्थ सावसेस’’न्तिआदि. सेसपदेसुपीति ‘‘न महानिसंसो’’तिआदीसुपि.

अट्ठहि कारणेहीति –

‘‘अथ खो, भन्ते, सक्को देवानमिन्दो देवानं तावतिंसानं भगवतो अट्ठ यथाभुच्चे वण्णे पयिरुदाहासि – ‘तं किं मञ्ञन्ति, भोन्तो देवा तावतिंसा, यावञ्च सो भगवा बहुजनहिताय पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं, एवं बहुजनहिताय पटिपन्नं बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं इमिनापङ्गेन समन्नागतं सत्थारं नेव अतीतंसे समनुपस्सामि, न पनेतरहि अञ्ञत्र तेन भगवता’’ति –

आदिना महागोविन्दसुत्ते (दी. नि. २.२९६) वित्थारितेहि बहुजनहिताय पटिपन्नादीहि बुद्धानुभावदीपकेहि अट्ठहि कारणेहि. अथ ‘‘नवहि कारणेही’’ति अवत्वा ‘‘अट्ठहि कारणेही’’ति कस्मा वुत्तन्ति आह ‘‘एत्थ हि…पे… सब्बे लोकियलोकुत्तरा बुद्धगुणा सङ्गहिता’’ति. इदं वुत्तं होति – इमस्मिं सुत्ते ‘‘इतिपि सो भगवा’’ति इमिना वचनेन अविसेसतो सब्बेपि लोकियलोकुत्तरा बुद्धगुणा दीपिता, तस्मा तेन दीपितगुणे सन्धाय ‘‘अट्ठहि कारणेही’’ति वुत्तन्ति. अरहन्तिआदीहि पाटियेक्कगुणाव निद्दिट्ठाति अरहन्तिआदीहि एकेकेहि पदेहि एकेके गुणाव निद्दिट्ठाति अत्थो.

सहतन्तिकन्ति पाळिधम्मसहितं. पुरिमनयेनेव योजना कातब्बाति ‘‘किलिट्ठस्मिञ्हि काये पसाधनं पसाधेत्वा नक्खत्तं कीळमाना न सोभन्ती’’तिआदिना नयेन योजना कातब्बाति अत्थो.

सङ्घस्स अनुस्सरणं नाम तस्स गुणानुस्सरणमेवाति आह ‘‘अट्ठन्नं अरियपुग्गलानं गुणे अनुस्सरती’’ति. द्वे तयो वारे गाहापितं उसुमन्ति द्वे तयो वारे उद्धनं आरोपेत्वा सेदनवसेन गाहापितं उसुमं. पुरिमनयेनेव योजना कातब्बाति ‘‘किलिट्ठस्मिञ्हि वत्थे पसाधनं पसाधेत्वा नक्खत्तं कीळमाना न सोभन्ती’’तिआदिना नयेन योजना कातब्बा.

पहीनकालतो पट्ठाय…पे… विरतावाति एतेन पहानहेतुका इधाधिप्पेता विरतीति दस्सेति. कम्मक्खयकरञाणेन हि पाणातिपातदुस्सील्यस्स पहीनत्ता अरहन्तो अच्चन्तमेव ततो पटिविरताति वुच्चति समुच्छेदवसेन पहानविरतीनं अधिप्पेतत्ता. किञ्चापि पहानविरमणानं पुरिमपच्छिमकालता नत्थि, मग्गधम्मानं पन सम्मादिट्ठिआदीनं सम्मावाचादीनञ्च पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति, गहणप्पवत्तिआकारवसेन पच्चयभूतेसु सम्मादिट्ठिआदीसु पहायकधम्मेसु पहानकिरियाय पुरिमकालवोहारो, पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति पहानं वा समुच्छेदवसेन, विरति पटिप्पस्सद्धिवसेन योजेतब्बा.

अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो धम्मसमूहो. को पन सो? अहिरिकानोत्तप्पदोसमोहविहिंसादयो किलेसा. ते हि अरहन्तो अरियमग्गेन पहाय समुग्घातेत्वा पाणातिपातदुस्सील्यतो अच्चन्तमेव पटिविरताति वुच्चन्ति, किलेसेसु पहीनेसु किलेसनिमित्तस्स कम्मस्स अनुप्पज्जनतो. अदिन्नादानं पहायातिआदीसुपि एसेव नयो. विरतावाति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति. यथा हि अञ्ञे समादिन्नविरतिकापि अनवट्ठितचित्तताय लाभजीवितादिहेतु समादानं भिन्दन्ति, न एवं अरहन्तो, अरहन्तो पन सब्बसो पहीनपाणातिपातत्ता अच्चन्तविरता एवाति.

दण्डनसङ्खातस्स परविहेठनस्स च परिवज्जनभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह ‘‘परूपघातत्थाया’’तिआदि. लज्जीति एत्थ वुत्तलज्जाय ओत्तप्पम्पि वुत्तमेवाति दट्ठब्बं. न हि पापजिगुच्छनपापुत्तासरहितं, पापभयं वा अलज्जनं अत्थीति. धम्मगरुताय वा अरहन्तानं धम्मस्स च अत्ता धीनत्ता अत्ताधिपतिभूता लज्जाव वुत्ता, न पन लोकाधिपति ओत्तप्पं. ‘‘दयं मेत्तचित्ततं आपन्ना’’ति कस्मा वुत्तं, ननु दया-सद्दो ‘‘अदयापन्नो’’तिआदीसु करुणाय पवत्ततीति? सच्चमेतं, अयं पन दया-सद्दो अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो. मिज्जति सिनिय्हतीति मेत्ता, मेत्ता एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्साति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ताइच्चेव अत्थो.

सब्बपाणभूतहितानुकम्पीति एतेन तस्सा विरतिया पवत्तवसेन अपरियन्ततं दस्सेति. पाणभूतेति पाणजाते. अनुकम्पकाति करुणायनका, यस्मा पन मेत्ता करुणाय विसेसपच्चयो होति, तस्मा वुत्तं ‘‘ताय एव दयापन्नताया’’ति. एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्जति, तेहि लज्जामेत्ताकरुणाधम्मेहि समङ्गिभावो दस्सितो.

परपरिग्गहितस्स आदानन्ति परसन्तकस्स आदानं. थेनो वुच्चति चोरो, तस्स भावो थेय्यं, कामञ्चेत्थ ‘‘लज्जी दयापन्नो’’ति न वुत्तं, अधिकारवसेन पन अत्थतो वुत्तमेवाति दट्ठब्बं. यथा हि लज्जादयो पाणातिपातप्पहानस्स विसेसपच्चया, एवं अदिन्नादानप्पहानस्सपीति, तस्मा सापि पाळि आनेत्वा वत्तब्बा. एस नयो इतो परेसुपि. अथ वा सुचिभूतेनाति एतेन हिरोत्तप्पादीहि समन्नागमो, अहिरिकादीनञ्च पहानं वुत्तमेवाति ‘‘लज्जी’’तिआदि न वुत्तन्ति दट्ठब्बं.

असेट्ठचरियन्ति असेट्ठानं हीनानं, असेट्ठं वा लामकं चरियं, निहीनवुत्तिं मेथुनन्ति अत्थो. ब्रह्मं सेट्ठं आचारन्ति मेथुनविरतिमाह. आराचारी मेथुनाति एतेन – ‘‘इधेकच्चो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जती’’तिआदिना (अ. नि. ७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बं.

‘‘सच्चतो थेततो’’तिआदीसु (म. नि. १.१९) विय थेत-सद्दो थिरपरियायो, थिरभावो च सच्चवादिताय ठितकथत्ता कथावसेन वेदितब्बोति आह ‘‘ठितकथाति अत्थो’’ति. न ठितकथोति यथा हलिद्दिरागादयो अनवट्ठितसभावताय न ठिता, एवं न ठिता कथा यस्स सो न ठितकथोति हलिद्दिरागादयो यथा कथाय उपमा होन्ति, एवं योजेतब्बं. एस नयो ‘‘पासाणलेखा विया’’तिआदीसुपि. सद्धा अयति पवत्तति एत्थाति सद्धाया, सद्धाया एव सद्धायिका यथा वेनयिका. सद्धाय वा अयितब्बा सद्धायिका, सद्धेय्याति अत्थो. वत्तब्बतं आपज्जति विसंवादनतोति अधिप्पायो.

एकं भत्तं एकभत्तं, तं एतेसमत्थीति एकभत्तिका, एकस्मिं दिवसे एकवारमेव भुञ्जनका. तयिदं रत्तिभोजनेनपि सियाति आह ‘‘रत्तूपरता’’ति. एवम्पि सायन्हभोजनेनपि सियुं एकभत्तिकाति तदासङ्कानिवत्तनत्थं ‘‘विरता विकालभोजना’’ति वुत्तं. अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका अयं बुद्धानं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो. अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता अपरण्हो ‘‘विकालो’’ति वुत्तो.

सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी. नि. २.९०; ध. प. १८३) भगवतो सासनं सच्छन्दरागप्पवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना पयोजियमानं परेहि पयोजापीयमानञ्च नच्चं नच्चभावसामञ्ञतो पाळियं एकेनेव नच्चसद्देन गहितं, तथा गीतवादितसद्दा चाति आह ‘‘नच्चननच्चापनादिवसेना’’ति. आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गण्हाति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो दस्सनाइच्चेव वुत्तं. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह ‘‘विसूकभूतं दस्सन’’न्ति. तथा हि वुत्तं परमत्थजोतिकाय खुद्दकपाठट्ठकथाय ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति.

यं किञ्चीति गन्थितं वा अगन्थितं वा यं किञ्चि पुप्फं. गन्धजातन्ति गन्धजातियं. तस्सापि ‘‘यं किञ्ची’’ति वचनतो धूपितस्सपि अधूपितस्सपि यस्स कस्सचि विलेपनादि न वट्टतीति दस्सेति. उच्चाति उच्चसद्देन समानत्थं एकं सद्दन्तरं. सेति एत्थाति सयनं. उच्चासयनं महासयनञ्च समणसारुप्परहितं अधिप्पेतन्ति आह ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति, आसन्दादिआसनञ्चेत्थ सयनेन सङ्गहितन्ति दट्ठब्बं. यस्मा पन आधारे पटिक्खित्ते तदाधारकिरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तं. अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बा. अथ वा ‘‘उच्चासयनासनमहासयनासना’’ति, एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्चया सळायतन’’न्ति. (म. नि. ३.१२६; सं. नि. २.१) आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेनेव आसनम्पि सङ्गहितन्ति वेदितब्बं.

‘‘कीवा’’ति अयं निपातो. ‘‘कित्तक’’न्ति इमस्स अत्थं बोधेतीति आह ‘‘कीवमहप्फलोति कित्तकं महप्फलो’’ति. सेसपदेसूति ‘‘कीवमहानिसंसो’’तिआदीसु. रत्त-सद्दो रतनपरियायोति आह ‘‘पहूतरत्तरतनानन्ति पहूतेन रत्तसङ्खातेन रतनेन समन्नागतान’’न्ति. पाळियं पन ‘‘पहूतसत्तरतनान’’न्तिपि पाठो दिस्सति. भेरितलसदिसं कत्वाति भेरितलं विय समं कत्वा. ततो एकं भागं न अग्घतीति यथावुत्तं चक्कवत्तिरज्जं ततो सोळसभागतो एकं भागं न अग्घति. ततो बहुतरं होतीति चक्कवत्तिरज्जसिरितो बहुतरं होति.

चातुमहाराजीकानन्तिआदीसु चातुमहाराजिका नाम सिनेरुपब्बतस्स वेमज्झे होन्ति, तेसु बहू पब्बतट्ठापि आकासट्ठापि, तेसं परम्परा चक्कवाळपब्बतं पत्ता, खिड्डापदोसिका, मनोपदोसिका, सीतवलाहका, उण्हवलाहका, चन्दिमा, देवपुत्तो, सूरियो, देवपुत्तोति एते सब्बे चातुमहाराजिकदेवलोकट्ठका एव. तेत्तिंस जना तत्थ उप्पन्नाति तावतिंसा. अपिच तावतिंसाति तेसं देवानं नाममेवाति वुत्तं. तेपि अत्थि पब्बतट्ठका, अत्थि आकासट्ठका, तेसं परम्परा चक्कवाळपब्बतं पत्ता, तथा यामादीनं. एकदेवलोकेपि हि देवानं परम्परा चक्कवाळपब्बतं अप्पत्ता नाम नत्थि. तत्थ दिब्बसुखं याता पयाता सम्पत्ताति यामा. तुट्ठा पहट्ठाति तुसिता. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामकाले यथारुचिते भोगे निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरति. चित्ताचारं ञत्वा परेहि निम्मितेसु भोगेसु वसं वत्तेन्तीति परनिम्मितवसवत्ती.

तत्थ चातुमहाराजिकानं देवानं मनुस्सगणनाय नवुतिवस्ससतसहस्सानि आयुप्पमाणं. तावतिंसानं देवानं तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानि. यामानं देवानं चुद्दस च वस्सकोटियो चत्तारि च वस्ससतसहस्सानि. तुसितानं देवानं सत्तपञ्ञास च वस्सकोटियो सट्ठि च वस्ससतसहस्सानि. निम्मानरतीनं देवानं द्वे च वस्सकोटिसतानि तिस्सो च वस्सकोटियो चत्तारि च वस्ससतसहस्सानि. परनिम्मितवसवत्तीनं देवानं नव च वस्सकोटिसतानि एकवीस कोटियो च सट्ठि च वस्ससतसहस्सानि.

मुट्ठिहत्थपादकेति पादतलतो याव अटनिया हेट्ठिमन्तो, ताव मुट्ठिरतनप्पमाणपादके. तञ्च खो मज्झिमस्स पुरिसस्स हत्थेन, यस्सिदानि वड्ढकीहत्थोति समञ्ञा. सीलसमादानतो पट्ठाय अञ्ञं किञ्चि अकत्वा धम्मस्सवनेन वा कम्मट्ठानमनसिकारेन वा वीतिनामेतब्बन्ति आह ‘‘तं पन उपवसन्तेन…पे… विचारेतब्ब’’न्ति.

वाचं भिन्दित्वा उपोसथङ्गानि समादातब्बानीति ‘‘इमञ्च रत्तिं इमञ्च दिवस’’न्ति कालपरिच्छेदं कत्वा ‘‘उपोसथङ्गवसेन अट्ठ सिक्खापदानि समादियामी’’ति एकतो कत्वा पुन पच्चेकं ‘‘पाणातिपाता वेरमणिसिक्खापदं समादियामि…पे… उच्चासयनमहासयना वेरमणिसिक्खापदं समादियामी’’ति एवं वचीभेदं कत्वा यथापाळि समादातब्बानि. पाळिं अजानन्तेन पन अत्तनो भासाय पच्चेकं वा ‘‘बुद्धपञ्ञत्तं उपोसथं अधिट्ठामी’’ति एकतो अधिट्ठानवसेन वा समादातब्बानि, अञ्ञं अलभन्तेन अधिट्ठातब्बानि. उपासकसीलञ्हि अत्तना समादियन्तेनपि समादिन्नं परसन्तिके समादियन्तेनपि, एकज्झं समादिन्नम्पि समादिन्नमेव होति पच्चेकं समादिन्नम्पि. तं पन एकज्झं समादियतो एकायेव विरति एका चेतना होति. सा पन सब्बविरतिचेतनानं किच्चकारीति तेनपि सब्बसिक्खापदानि समादिन्नानेव. पच्चेकं समादियतो पन नानाविरतिचेतनायो यथासकं किच्चवसेन उप्पज्जन्ति, सब्बसमादाने पन वचीभेदो कातब्बोयेव. परूपरोधपटिसंयुत्ता परविहिंसासंयुत्ता.

ननु च ‘‘मणि’’न्ति वुत्ते वेळुरियम्पि सङ्गहितमेव, किमत्थं पन वेळुरियन्ति आह ‘‘वेळुरियन्ति…पे… दस्सेती’’ति. ‘‘मणि’’न्ति वत्वाव ‘‘वेळुरिय’’न्ति इमिना जातिमणिभावं दस्सेतीति योजेतब्बं. एकवस्सिकवेळुवण्णन्ति जातितो एकवस्सातिक्कन्तवेळुवण्णं. लद्धकन्ति सुन्दरं. चन्दप्पभा तारगणाव सब्बेति यथा चन्दप्पभाय कलं सब्बे तारागणा नानुभवन्तीति अयमेत्थ अत्थोति आह ‘‘चन्दप्पभाति सामिअत्थे पच्चत्त’’न्ति.

उपोसथसुत्तवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.