८. तिकण्णसुत्तवण्णना

५९. अट्ठमे दुरासदाति दुरुपसङ्कमना. गरहा मुच्चिस्सतीति मयि एवं कथेन्ते समणो गोतमो किञ्चि कथेस्सति, एवं मे वचनमत्तम्पि न लद्धन्ति अयं गरहा मुच्चिस्सतीति. पण्डिताति पण्डिच्चेन समन्नागता. धीराति धितिसम्पन्ना. ब्यत्ताति परवादमद्दनसमत्थेन वेय्यत्तियेन समन्नागता. बहुस्सुताति बाहुसच्चवन्तो. वादिनोति वादिमग्गकुसला. सम्मताति बहुनो जनस्स साधुसम्मता. पण्डितादिआकारपरिच्छेदन्ति तेसं तेविज्जानं पण्डिताकारादिआकारपरिच्छेदं. आकारसद्दो कारणपरियायो, परिच्छेदसद्दो परिमाणत्थोति आह ‘‘एत्तकेन कारणेना’’ति.

यथाति येनाकारेन, येन कारणेनाति अत्थो. तेनाह ‘‘यथाति कारणवचन’’न्ति. ‘‘द्वीहिपि पक्खेही’’ति वत्वा ते पक्खे सरूपतो दस्सेन्तो ‘‘मातितो च पितितो चा’’ति आह. तेसं पक्खानं वसेनस्स सुजाततं दस्सेतुं ‘‘यस्स माता’’तिआदि वुत्तं. जनकजनिकाभावेन विनापि लोके मातापितुसमञ्ञा दिस्सति, इध पन सा ओरसपुत्तवसेनेव इच्छिताति दस्सेतुं ‘‘संसुद्धगहणिको’’ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो. यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, कम्मजतेजोधातु.

पिता च माता च पितरो, पितूनं पितरो पितामहा, तेसं युगो पितामहयुगो, तस्मा ‘‘याव सत्तमा पितामहयुगा पितामहद्वन्दा’’ति एवमेत्थ अत्थो दट्ठब्बो. अट्ठकथायं पन द्वन्दं अग्गहेत्वा ‘‘युगन्ति आयुप्पमाणं वुच्चती’’ति वुत्तं. युग-सद्दस्स च अत्थकथा दस्सिता ‘‘पितामहोयेव पितामहयुग’’न्ति. पुब्बपुरिसाति पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बं. एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति. अक्खित्तोति अक्खेपो. अनवक्खित्तोति सद्धथालिपाकादीसु अनवक्खित्तो न छड्डितो. जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तं. एत्थ च ‘‘उभतो…पे… पितामहयुगा’’ति एतेन ब्राह्मणस्स योनिदोसाभावो दस्सितो संसुद्धगहणिकताकित्तनतो. ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो. संसुद्धजातिकापि हि सत्ता किरियापराधेन खेपं पापुणन्ति. ‘‘अनुपक्कुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता सुद्धजातिका किरियापराधरहितापि अक्कोसं लभन्ति.

तन्ति गरहावचनं. मन्ते परिवत्तेतीति वेदे सज्झायति, परियापुणातीति अत्थो. मन्ते धारेतीति यथाअधीते मन्ते असम्मुट्ठे कत्वा हदये ठपेति.

ओट्ठपहतकरणवसेनाति अत्थावधारणवसेन. सनिघण्डुकेटुभानन्ति एत्थ वचनीयवाचकभावेन अत्थं सद्दञ्च खण्डति भिन्दति विभज्ज दस्सेतीति निखण्डु, सो एव इध ख-कारस्स घ-कारं कत्वा ‘‘निघण्डू’’ति वुत्तो. किटति गमेति किरियादिविभागं, तं वा अनवसेसपरियादानतो गमेन्तो पूरेतीति केटुभं. वेवचनप्पकासकन्ति परियायसद्ददीपकं, एकेकस्स अत्थस्स अनेकपरियायवचनविभावकन्ति अत्थो. निदस्सनमत्तञ्चेतं अनेकेसम्पि अत्थानं एकसद्दवचनीयताविभावनवसेनपि तस्स गन्थस्स पवत्तत्ता. वचीभेदादिलक्खणा किरिया कप्पीयति विकप्पीयति एतेनाति किरियाकप्पो, सो पन वण्णपदसम्बन्धपदत्थादिविभागतो बहुकप्पोति आह ‘‘किरियाकप्पविकप्पो’’ति. इदञ्च मूलकिरियाकप्पगन्थं सन्धाय वुत्तं. सो हि महाविसयो सतसहस्सपरिमाणो नमाचरियादिप्पकरणं. ठानकरणादिविभागतो निब्बचनविभागतो च अक्खरा पभेदीयन्ति एतेहीति अक्खरप्पभेदा, सिक्खानिरुत्तियो. एतेसन्ति चतुन्नं वेदानं.

पदन्ति चतुब्बिधं, पञ्चविधं वा पदं, तं पदं कायतीति पदको, तेयेव वा वेदे पदसो कायतीति पदको. तदवसेसन्ति वुत्तावसेसं वाक्यं. एत्तावता सद्दब्याकरणं वत्वा पुन ‘‘ब्याकरण’’न्ति अत्थब्याकरणमाह. तं तं सद्दं तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति ब्याकरणं, सद्दसत्थं. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति.

असीति महासावकाति अञ्ञासिकोण्डञ्ञो, वप्पो, भद्दियो, महानामो, अस्सजि, नाळको, यसो, विमलो, सुबाहु, पुण्णजि, गवम्पति, उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपो, सारिपुत्तो, महामोग्गल्लानो, महाकस्सपो, महाकच्चानो, महाकोट्ठिको, महाकप्पिनो, महाचुन्दो, अनुरुद्धो, कङ्खारेवतो, आनन्दो, नन्दको, भगु, नन्दियो, किमिलो, भद्दियो, राहुलो, सीवलि, उपालि, दब्बो, उपसेनो, खदिरवनियरेवतो, पुण्णो मन्तानिपुत्तो, पुण्णो सुनापरन्तको, सोणो कुटिकण्णो, सोणो कोळिविसो, राधो, सुभूति, अङ्गुलिमालो, वक्कलि, काळुदायी, महाउदायी, पिलिन्दवच्छो, सोभितो, कुमारकस्सपो, रट्ठपालो, वङ्गीसो, सभियो, सेलो, उपवाणो, मेघियो, सागतो, नागितो, लकुण्डकभद्दियो, पिण्डोलो भारद्वाजो, महापन्थको, चूळपन्थको, बाकुलो, कुण्डधानो, दारुचीरियो, यसोजो, अजितो, तिस्समेत्तेय्यो, पुण्णको, मेत्तगु, धोतको, उपसीवो, नन्दो, हेमको, तोदेय्यो, कप्पो, जतुकण्णी, भद्रावुधो, उदयो, पोसलो, मोघराजा, पिङ्गियोति एते असीति महासावका नाम.

कस्मा पनेते एव थेरा ‘‘महासावका’’ति वुच्चन्तीति? अभिनीहारस्स महन्तभावतो. तथा हि द्वे अग्गसावकापि महासावकेसु अन्तोगधा. ते हि सावकपारमिञाणस्स मत्थकप्पत्तिया सावकेसु अग्गधम्माधिगमेन अग्गट्ठाने ठितापि अभिनीहारमहन्ततासामञ्ञेन ‘‘महासावका’’तिपि वुच्चन्ति, इतरे पन पकतिसावकेहि सातिसयं महाभिनीहारा. तथा हि ते पदुमुत्तरस्स भगवतो काले कतपणिधाना, ततो एव सातिसयं अभिञ्ञासमापत्तीसु वसिनो पभिन्नप्पटिसम्भिदा च. कामं सब्बेपि अरहन्तो सीलविसुद्धिआदिके सम्पादेत्वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा मग्गप्पटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति, तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, पञ्ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेससिद्धो मग्गभावनाविसेसो, एवं अभिनीहारमहन्तत्तपुब्बयोगमहन्तत्ता हि ससन्ताने सातिसयस्स गुणविसेसस्स निप्फादितत्ता सीलादीहि गुणेहि महन्ता सावकाति महासावका. तेसुयेव पन ये बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसङ्कप्पादीनं सातिसयं किच्चानुभावनिप्फत्तिया कारणभूताय तज्जाभिनीहाराभिनीहटाय सक्कच्चं निरन्तरं चिरकालसम्भाविताय सम्मापटिपत्तिया यथाक्कमं पञ्ञाय समाधिस्मिञ्च उक्कट्ठपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठिता, ते सारिपुत्तमोग्गल्लाना. इतरे अट्ठसत्तति थेरा सावकपारमिया मत्थके सब्बसावकानं अग्गभावेन अट्ठितत्ता ‘‘महासावका’’इच्चेव वुच्चन्ति. पकतिसावका पन अभिनीहारमहन्तत्ताभावतो पुब्बयोगमहन्तत्ताभावतो च ‘‘सत्थुसावका’’इच्चेव वुच्चन्ति. ते पन अग्गसावका विय महासावका विय च न परिमिता, अथ खो अनेकसता अनेकसहस्सा.

वयतीति वयो, आदिमज्झपरियोसानेसु कत्थचि अपरिकिलमन्तो अवित्थायन्तो ते गन्थे सन्तानेति पणेतीति अत्थो. द्वे पटिसेधा पकतिं गमेन्तीति दस्सेतुं ‘‘अवयो न होती’’ति वत्वा तत्थ अवयं दस्सेतुं ‘‘अवयो नाम…पे… न सक्कोती’’ति वुत्तं.

इधाति इमस्मिं सुत्ते. एतन्ति ‘‘विविच्चेव कामेही’’तिआदिवचनं. ततियविज्जाधिगमाय पटिपत्तिक्कमो विसुद्धिमग्गे (विसुद्धि. १.७०) सातिसयं वित्थारितो, तथा इध अवत्तुकामताय भयभेरवसुत्तादीसु (म. नि. १.३४ आदयो) विय सङ्खेपतो च वत्तुकामताय ‘‘द्विन्नं विज्जान’’मिच्चेव वुत्तं.

विज्जाति पुब्बेनिवासप्पटिच्छादकस्स मोहक्खन्धस्स विज्जनट्ठेनपि विज्जा. मोहो पटिच्छादकट्ठेन तमोति वुच्चति तमो वियाति कत्वा. कातब्बतो करणं, ओभासोव करणं ओभासकरणं, अत्तनो पच्चयेहि ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. अयं अत्थोति अयमेव अधिप्पेतत्थो. पसंसावचनन्ति तस्सेव अत्थस्स थोमनावचनं पटिपक्खविधमनपवत्तिविसेसानं बोधनतो. योजनाति पसंसावसेन वुत्तपदानं अत्थदस्सनवसेन वुत्तपदस्स च योजना. अविज्जा विहताति एतेन विज्जनट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. यस्मा विज्जा उप्पन्नाति एतेन विज्जापटिपक्खा अविज्जा, पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. इतरस्मिम्पि पदद्वयेति ‘‘तमो विहतो, आलोको उप्पन्नो’’ति पदद्वयेपि. एसेव नयोति यथावुत्तयोजनं अतिदिसति. तत्थायं योजना – एवं अधिगतविज्जस्स तमो विहतो विद्धस्तो. कस्मा? यस्मा आलोको उप्पन्नो ञाणालोको पातुभूतोति. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिप्पत्तिं विस्सट्ठचित्तस्स, पठमविज्जाधिगमाय पेसितचित्तस्साति वुत्तं होति.

विपस्सनापादकन्ति इमिना तस्स झानचित्तस्स निब्बेधभागियतमाह. विपस्सना तिविधा विपस्सकपुग्गलभेदेन. महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसंवड्ढितत्ता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवड्ढितत्ता परोपदेससम्भूता. सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन च अनेकधाव विसुद्धिमग्गे (विसुद्धि. १.३०६) नानानयतो विभाविता. महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु ‘‘महावजिरञाण’’न्ति वुच्चति. यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जूसायं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. १.१४४) दस्सितो, अत्थिकेहि ततो गहेतब्बोति. इध पन सावकानं विपस्सनाचारं सन्धाय ‘‘विपस्सनापादक’’न्ति वुत्तं.

कामं हेट्ठिममग्गञाणानिपि आसवानं खेपनञाणानि एव, अनवसेसतो पन तेसं खेपनं अग्गमग्गञाणेनेवाति आह ‘‘अरहत्तमग्गञाणत्थाया’’ति. आसवविनासनतोति आसवानं निस्सेसं समुच्छिन्दनतो. आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा ‘‘खये’’ति आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तत्थ परियापन्नत्ता’’ति आह. अभिनीहरतीति अभिमुखं नीहरति, यथा मग्गाभिसमयो होति, सवनं तदभिमुखं पवत्तेति. इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा भिक्खुना पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं. न इतो भिय्योति तस्स अनवसेसतो गहितभावदस्सनं. तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन. असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खसच्चस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति. तेनेवाह ‘‘यथाभूतं पजानाती’’ति. दुक्खं समुदेति एतस्माति दुक्खसमुदयो. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म. पत्वाति च तदुभयवतो पुग्गलस्स पवत्तियाति कत्वा वुत्तं. पत्वाति वा पापुणनहेतु. अप्पवत्तिन्ति अप्पवत्तिनिमित्तं. ते वा न पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं.

किलेसवसेनाति आसवसङ्खातकिलेसवसेन. यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं ‘‘परियायतो’’ति. दस्सेन्तो सच्चानीति योजना. आसवानञ्चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता. तथा हि ‘‘कामासवापि चित्तं विमुच्चती’’तिआदिना आसवविमुत्तिसीसेनेव सब्बकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं पजानाती’’तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसी’’ति वुत्तं. जानतो पस्सतोति इमिना परिञ्ञासच्छिकिरियाभावनाभिसमया वुत्ता. विमुच्चतीति इमिना पहानाभिसमयो वुत्तोति आह ‘‘इमिना मग्गक्खणं दस्सेती’’ति. जानतो पस्सतोति वा हेतुनिद्देसो. यं जाननहेतु कामासवापि चित्तं विमुच्चतीति योजना. धम्मानञ्हि समानकालिकानम्पि पच्चयपच्चयुप्पन्नता सहजातकोटिया लब्भति. भवासवग्गहणेनेव एत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो.

खीणा जातीतिआदीहि पदेहि. तस्साति पच्चवेक्खणञाणस्स. भूमिन्ति पवत्तिट्ठानं. येनाधिप्पायेन ‘‘कतमा पनस्सा’’तिआदिना चोदना कता, तं विवरन्तो ‘‘न तावस्सा’’तिआदिमाह. तत्थ न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति. न अनागता अस्स जाति खीणाति योजना. न अनागताति च अनागतभावसामञ्ञं गहेत्वा लेसेन चोदेति. तेनाह ‘‘अनागते वायामाभावतो’’ति. अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स खेपने वायामो लब्भतेव. तेनाह ‘‘या पन मग्गस्सा’’तिआदि. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं. तन्ति यथावुत्तं जातिं. सोति खीणासवो भिक्खु.

ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘परिवुत्थ’’न्ति. सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरेसु च सच्चेसु नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव. तेन वुत्तं ‘‘चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनाभिसमयवसेना’’ति. पुथुज्जनकल्याणकादयोति आदि-सद्देन सत्तसेखं सङ्गण्हाति.

इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसविधकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयाय वा’’ति. पहीनकिलेसपच्चवेक्खणवसेन वा एतं वुत्तं. दुतियविकप्पे इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति. अपरन्ति अनागतं. इमे पन चरिमकत्तभावसङ्खाता पञ्चक्खन्धा. परिञ्ञाता तिट्ठन्तीति एतेन तेसं अप्पतिट्ठतं दस्सेति. अपरिञ्ञामूलका हि पतिट्ठा. यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो, अत्थि नन्दी, अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरुळ्ह’’न्तिआदि (सं. नि. २.६४; कथा. २९६; महानि. ७). तेनेवाह – ‘‘छिन्नमूलका रुक्खा विया’’तिआदि.

यस्साति पुथुज्जनस्स. तस्स हि सीलं कदाचि वड्ढति, कदाचि हायति. सेक्खापि पन सीलेसु परिपूरकारिनोव, असेक्खेसु वत्तब्बमेव नत्थि. तेनाह ‘‘खीणासवस्सा’’तिआदि. वसिप्पत्तन्ति वसीभावप्पत्तं. सुट्ठु समाहितन्ति अग्गफलसमाधिना सम्मदेव समाहितं. धितिसम्पन्नन्ति अग्गफलधितिया समन्नागतं. मच्चुं जहित्वा ठितन्ति आयतिं पुनब्भवाभावतो वुत्तं. कथं पुनब्भवाभावोति आह ‘‘सब्बे पापधम्मे पजहित्वा ठित’’न्ति. सब्बस्सपि ञेय्यधम्मस्स चतुसच्चन्तोगधत्ता वुत्तं ‘‘बुद्धन्ति चतुसच्चबुद्ध’’न्ति. बुद्धसावकाति सावकबुद्धा नमस्सन्ति, पगेव इतरा पजा. इतरा हि पजा सावकेपि नमस्सन्ति. इति एत्तकेन ठानेन सम्मासम्बुद्धस्स वसेन गाथानं अत्थं वत्वा इदानि सावकस्सपि वसेन अत्थं योजेत्वा दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. सावकोपि गोतमो मुखनिब्बत्तेन सम्पत्तेन सम्बन्धेन, यतो सब्बेपि अरियसावका भगवतो ओरसपुत्ताति वुच्चन्तीति.

निवुस्सतीति निवासो, निवुत्थो खन्धसन्तानोति आह ‘‘निवुत्थक्खन्धपरम्पर’’न्ति. अवेति, अवेदीति पाठद्वयेनपि पुब्बेनिवासञाणस्स किच्चसिद्धिंयेव दस्सेति. एकत्तकायएकत्तसञ्ञिभावसामञ्ञतो वेहप्फलापि एत्थेव सङ्गहं गच्छन्तीति ‘‘छ कामावचरे, नव ब्रह्मलोके’’इच्चेव वुत्तं. इतरे पन अपचुरभावतो न वुत्ता. एकच्चानं अविसयभावतो च अवचनं दट्ठब्बं. जाति खीयति एतेनाति जातिक्खयो, अरहत्तन्ति आह ‘‘अरहत्तं पत्तो’’ति. ‘‘अभिञ्ञाया’’ति वत्तब्बे यकारलोपेन ‘‘अभिञ्ञा’’ति निद्देसो कतोति आह ‘‘जानित्वा’’ति. किच्चवोसानेनाति चतूहि मग्गेहि कत्तब्बस्स सोळसविधस्स किच्चस्स परियोसानेन. वोसितोति परियोसितो, निट्ठितोति अत्थो. मोनेय्येन समन्नागतोति कायमोनेय्यादीहि समन्नागतो. लपितं लपतीति लपितलापनो. अत्तपच्चक्खतो ञत्वाति इमिना तेसं विज्जानं पटिलद्धभावं दीपेति.

तिकण्णसुत्तवण्णना निट्ठिता.