५. पण्डितसुत्तवण्णना
४५. पञ्चमे पण्डितपञ्ञत्तानीति पण्डितेहि पठमं पञ्ञत्तानि. कथितानीति सेय्यसो कथितानि. महापुरिसेहीति बुद्धबोधिसत्तेहि. करुणाति करुणाचेतोविमुत्ति वुत्ता. पुब्बभागोति तस्स उपचारो. दमोति इन्द्रियसंवरो ‘‘मनच्छट्ठानं इन्द्रियानं दमन’’न्ति कत्वा. अत्तदमनन्ति चित्तदमनं. पुण्णोवादे (म. नि. ३.३९६) ‘‘सक्खिस्ससि खो, त्वं पुण्ण, इमिना दमूपसमेना’’ति आगतत्ता दमोति वुत्ता खन्तिपि. आळवके आळवकसुत्ते (सं. नि. १.२४६; सु. नि. १९०) ‘‘सच्चा दमा चागा’’ति एवं वुत्ता पञ्ञापि इमस्मिं सुत्ते ‘‘दमो’’ति वत्तुं वट्टति. रक्खनं गोपनं पटिजग्गनन्ति मातापितूनं मनुस्सामनुस्सकतूपद्दवतो रक्खनं, ब्याधिआदिअनत्थतो गोपनं, घासच्छादनादीहि वेय्यावच्चकरणेन पटिजग्गनं. सन्तो नाम सब्बकिलेसदरथपरिळाहूपसमेन उपसन्तकायवचीसमाचारताय च. उत्तमट्ठेन सन्तानन्ति मत्तेय्यतादीहि सेट्ठट्ठेन सन्तानं.
इध इमेसंयेव तिण्णं ठानानं करणेनाति इमस्मिं सुत्ते आगतानं तिण्णं ठानानं करणेन निब्बत्तनेन. एतानि…पे… कारणानीति मातुपट्ठानं पितुपट्ठानन्ति एतानि द्वे उत्तमपुरिसानं कारणानि. उत्तमकिच्चकरणेन हि मातापितुउपट्ठाका ‘‘उत्तमपुरिसा’’ति वुत्ता. तेनाह ‘‘मातापितु…पे… वुत्तो’’ति. अनुपद्दवभावेन खेमं.
पण्डितसुत्तवण्णना निट्ठिता.