९. सुखुमालसुत्तवण्णना

३९. नवमे निद्दुक्खोति कायिकचेतसिकदुक्खविरहितो. सदुक्खे हि सविघाते सुखुमालत्ता अनवसरा, तस्मा सुखितो निद्दुक्खताय सुखुमालो नाम. यावस्स सुखुमालत्ता परमुक्कंसगताति आह ‘‘परमसुखुमालो’’ति. अतिविय सुखुमालोति अत्थो. अन्तमतीतं अच्चन्तं. सब्बदा सुखुमालोति आह ‘‘सततनिद्दुक्खो’’ति. चरियकालेति बोधिचरियाय चरणकाले. तेनाति बोधिसत्तेन. अञ्ञत्थ पन पदुमन्ति रत्तं कमलं. पुण्डरीकन्ति सेतं वुच्चति. इतराति इतरपोक्खरणियो. ‘‘बोधिसत्तस्स किरा’’तिआदिकं पोक्खरणीनं उप्पत्तिदस्सनं. कुद्दालकम्मकारेति खणके. पोक्खरणिट्ठानानीति पोक्खरणिखणनयोग्गट्ठानानि. गण्हापेसीति खणापेसि. पोक्खरणिसद्दो चेत्थ तादिसे जलासये निरुळ्हो दट्ठब्बो पङ्कजादिसद्दा विय. सोपानबाहुकानं मत्थकट्ठानं उण्हीसन्ति अधिप्पेतं. उदकसेचननाळिकाति उदकच्छटाविस्सज्जननाळियन्तानि. पञ्चविधाति वण्णवसेन जातिवसेन च.

खो पनस्साति निपातमत्तं. कासिक-सद्दो अतिविय सण्हे सुखुमे महग्घवत्थे निरुळ्हो, अञ्ञस्मिम्पि तथाजातिके रुळ्हिवसेन पवत्ततीति दट्ठब्बं. तेनाह ‘‘अकासिकं चन्दन’’न्ति. हेमन्ते वासो हेमन्तं, हेमन्तं अरहतीति हेमन्तिको, पासादो. ‘‘इतरेसुपि एसेव नयो’’ति वत्वा तदेव नेसं अरहतं दस्सेतुं ‘‘तत्थ हेमन्तिको’’तिआदि वुत्तं. सजालानीति सजालवातपानानि, उदकयन्तानीति उदकधाराविस्सन्दनकयन्तानि. पासादमत्थकेति पासादस्स उपरिआकासतले. बन्धित्वाति पयोजितयन्ते सुक्खमहिंसचम्मं बन्धित्वा. यन्तं परिवत्तेत्वाति यथापयोजितं यन्तं पासाणारोपनत्थञ्चेव पुन तेसं विस्सज्जनत्थञ्च परिवत्तेत्वा. तस्मिं विस्सज्जेन्तीति छदनपिट्ठे बद्धसुक्खमहिंसचम्मे विस्सज्जेन्ति.

सहस्सथामन्ति पुरिससहस्सबलं, पुरिससहस्सेन वहितब्बभारवहं. पल्लङ्के निसिन्नोवाति रतनमयपल्लङ्के यथानिसिन्नो एव. उप्पतनाकारपत्तन्ति उप्पतित्वा ठितं विय. जियं पोथेन्तस्साति जियाघातं करोन्तस्स. जियप्पहारसद्दोति जियाघातसद्दो. यन्ते बद्धन्ति यन्तबद्धं कत्वा ठपितं. सद्दन्तरेति थाममज्झिमस्स पुरिसस्स सद्दसवनट्ठाने. गावुतस्स चतुत्थो भागो कोसोतिपि वुच्चति द्विसहस्सदण्डप्पमाणट्ठानं.

सब्बट्ठानानीति महापुरिसस्स तानि तानि सब्बानि वसनट्ठानानि. सिखाबद्धोति पुरिससभावस्सेव विसेसतो दस्सनमेतं. न उप्पिलावितभावत्थन्ति उप्पिलावितभावसङ्खातं अत्थं न कथेसीति अत्थो. तस्स हि बोधिमूलेयेव सेतुघातो. तेनेवाति अप्पमादलक्खणस्स दीपनतो एव. अत्तानं अतिक्कमित्वाति अत्तनो जरापत्तिं अचिन्तेत्वा अट्टीयति. न पनेस मग्गेन पहीनो तदा मग्गस्स अनधिगतत्ता. सिक्खं पटिक्खिपित्वाति यथासमादिन्नसिक्खं पहाय.

अविपरीतब्याधिआदिसभावावाति एकन्तेन ब्याधिआदिसभावा एव. एवं जिगुच्छाविहारेनाति एवं सकलस्सेव वट्टदुक्खस्स जिगुच्छनविहारेन विहरन्तस्स. एवं जिगुच्छनन्ति एवं परस्स जिगुच्छनं. परं अजिगुच्छमानोति करुणायनेन एवं परं अजिगुच्छन्तो. अभिभोस्मीति अभिभविता अस्मि. उस्साहो अहूति चतुरङ्गसमन्नागतं वीरियमेव चतुब्बिधसम्मप्पधानवीरियञ्च अहोसि, येन मग्गब्रह्मचरियपरायणो जातो.

सुखुमालसुत्तवण्णना निट्ठिता.