६. सेवितब्बसुत्तवण्णना
२६. छट्ठे उपसङ्कमितब्बोति कालेन कालं उपसङ्कमितब्बो. अल्लीयितब्बोति छायाय विय विना भावनाय निल्लीयितब्बो. पुनप्पुनं उपासितब्बोति अभिण्हसो उपनिसीदितब्बो. अनुद्दयाति मेत्तापुब्बभागो. उपसङ्कमितुं वट्टतीति ‘‘एतस्स सीलेन अभिवुद्धि भविस्सती’’ति उपकारत्थं उपसेवनादि वट्टति.
न पटिहञ्ञिस्सतीति ‘‘अपेहि, किं एतेना’’ति पटिक्खेपाभावतो पियसीलत्ता न पटिहञ्ञिस्सति. फासु भविस्सतीति द्वीसु हि सीलवन्तेसु एकेन सीलस्स वण्णे कथिते इतरो अनुमोदति. तेन तेसं कथा फासु चेव होति पवत्तिनी च. एकस्मिं पन दुस्सीले सति दुस्सीलस्स सीलकथा दुक्कथा, नेव सीलकथा होति, न फासु होति, न पवत्तिनी. दुस्सीलस्स हि सीलकथा अफासु भविस्सति. सीलकथाय वुत्तमत्थं समाधिपञ्ञाकथासुपि अतिदिसति ‘‘समाधिपञ्ञाकथासुपि एसेव नयो’’ति. द्वे हि समाधिलाभिनो समाधिकथं सप्पञ्ञा च पञ्ञाकथं कथेन्ता रत्तिं वा दिवसं वा अतिक्कमन्तम्पि न जानन्ति.
तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति तस्मिं तस्मिं अनुग्गहेतब्बे पञ्ञाय सोधेतब्बे वड्ढेतब्बे च अधिकसीलं निस्साय उप्पन्नपञ्ञाय अनुग्गहेस्सामीति अत्थो. तञ्च अनुग्गण्हनं सीलस्स असप्पायानुपकारधम्मे वज्जेत्वा तप्पटिपक्खसेवनेन होतीति आह ‘‘सीलस्स असप्पाये’’तिआदि. सीलस्स असप्पायानुपकारधम्मा नाम अनाचारागोचरादयो, तप्पटिपक्खतो उपकारधम्मा वेदितब्बा. तस्मिं तस्मिं ठानेति तंतंसिक्खाकोट्ठासपदट्ठाने. अनुग्गण्हाति नामाति अभिन्नं असंकिलिट्ठं कत्वा अनुग्गण्हाति नाम. खारपरिस्सावनेति रजकानं ऊसखारादिखारपरिस्सावनपटे. हायतीति सीलादिना परिहायति. सेट्ठं पुग्गलन्ति सीलादिगुणेहि सेट्ठं उत्तरितरं उत्तमं पुग्गलं.
सेवितब्बसुत्तवण्णना निट्ठिता.