१०. अवकुज्जसुत्तवण्णना

३०. दसमे अवकुज्जपञ्ञोति निक्कुज्जपञ्ञो. तेनाह ‘‘अधोमुखपञ्ञो’’ति. पुब्बपट्ठपनाति पठमारम्भो. सन्निट्ठानन्ति कथापरियोसानं. अप्पनाति देसनाय निट्ठापनं. अनेके वा अनुसन्धियोति योजेतब्बं. समाधि वातिआदीसु लोकुत्तरधम्मा परमत्थतो सासनन्ति तदत्थोपादकसमाधि तस्स आदीति वुत्तो, तदासन्नत्ता विपस्सना, तस्स मूलभावेन एकदेसत्ता मग्गो.

सासनस्स पारिपूरिसुद्धियो नाम सत्थारा देसितनियामेनेव सिद्धा, ता पनेत्थ कथेन्तस्स वसेन गहेतब्बाति दस्सेतुं ‘‘अनूनं कत्वा देसेन्ती’’ति, ‘‘निग्गण्ठिं कत्वा देसेन्ती’’ति च वुत्तं. तत्थ निज्जटन्ति निग्गुम्बं अनाकुलं. निग्गण्ठिन्ति गण्ठिट्ठानरहितं सुविञ्ञेय्यं कत्वा.

आकिण्णानीति आकिरित्वा संकिरित्वा ठपितानीति अत्थो. तेनाह ‘‘पक्खित्तानी’’ति. उच्छङ्गो विय उच्छङ्गपञ्ञो पुग्गलो दट्ठब्बोति उच्छङ्गसदिसपञ्ञताय उच्छङ्गपञ्ञो. एवं पञ्ञा विय पुग्गलोपि उच्छङ्गो विय होति, तस्मिं धम्मानं अचिरट्ठानतोति अधिप्पायेन वुत्तं. यथा च उच्छङ्गसदिसा पञ्ञा, एवं निक्कुज्जकुम्भसदिसा पञ्ञा एवाति दट्ठब्बा.

संविदहनपञ्ञायाति ‘‘एवं कते इदं नाम भविस्सती’’ति एवं तंतंअत्थकिच्चं संविधातुं समत्थताय विचारणपञ्ञाय रहितो. सेय्योति सेट्ठो पासंसो. पुब्बभागपटिपदन्ति चित्तविसुद्धिआदिकं अरियमग्गस्स अधिगमाय पुब्बभागपटिपत्तिं.

अवकुज्जसुत्तवण्णना निट्ठिता.

पुग्गलवग्गवण्णना निट्ठिता.