१. भयसुत्तवण्णना
१. तिकनिपातस्स पठमे भयन्ति भीति चेतसो ब्यधोति आह ‘‘चित्तुत्रासो’’ति. उपद्दवोति अन्तरायो. तस्स पन विक्खेपकारणत्ता वुत्तं ‘‘अनेकग्गताकारो’’ति. उपसग्गोति उपसज्जनं, देवतोपपीळादिना अप्पटिकारविघातापत्ति. सा पन यस्मा पटिकाराभावेन विहञ्ञमानस्स किञ्चि कातुं असमत्थस्स ओसीदनकारणं, तस्मा वुत्तं ‘‘तत्थ तत्थ लग्गनाकारो’’ति. यथावुत्ते दिवसे अनागच्छन्तेसूति वञ्चेत्वा आगन्तुं नियमितदिवसे अनागच्छन्तेसु. द्वारे अग्गिं दत्वाति बहि अनिक्खमनत्थाय द्वारे अग्गिं दत्वा.
नळेहि छन्नपटिच्छन्नाति नळेहि तिणच्छदनसङ्खेपेन उपरि छादेत्वा तेहियेव दारुकुटिकनियामेन परितोपि छादिता. एसेव नयोति इमिना तिणेहि छन्नतं सेससम्भारानं रुक्खमयतञ्च अतिदिसति.
विधवपुत्तेति अन्तभावोपलक्खणं. ते हि निप्पितिका अविनीता असंयता यं किञ्चि कारिनो. सेसमेत्थ उत्तानमेव.
भयसुत्तवण्णना निट्ठिता.