३. गोतमकचेतियसुत्तवण्णना

१२६. ततिये सम्बहुलाति पञ्चसतमत्ता. पञ्चसता किर ब्राह्मणा तिण्णं वेदानं पारगू अपरभागे भगवतो धम्मदेसनं सुत्वा कामेसु आदीनवं नेक्खम्मे च आनिसंसं पस्समाना भगवतो सन्तिके पब्बजित्वा न चिरस्सेव सब्बं बुद्धवचनं उग्गण्हित्वा परियत्तिं निस्साय मानं उप्पादेसुं – ‘‘यं यं भगवा कथेति, तं तं मयं खिप्पमेव जानाम. भगवा हि इत्थिलिङ्गादीनि तीणि लिङ्गानि, नामादीनि चत्तारि पदानि, पठमादयो सत्त विभत्तियो मुञ्चित्वा न किञ्चि कथेति, एवं कथिते च अम्हाकं गण्ठिपदं नाम नत्थी’’ति, ते भगवति अगारवा हुत्वा ततो पट्ठाय भगवतो उपट्ठानम्पि धम्मस्सवनम्पि अभिण्हं न गच्छन्ति. ते सन्धाय वुत्तं ‘‘सम्बहुला किर ब्राह्मणपब्बजिता…पे… धम्मस्सवनं न गच्छन्ती’’ति. मुखपटिञ्ञं गहेत्वाति ‘‘सच्चं किर तुम्हे, भिक्खवे’’तिआदिना तमत्थं पटिपुच्छित्वा ‘‘सच्चं भगवा’’ति तेहि भिक्खूहि वुत्तं पटिवचनं गहेत्वा. तञ्हि अत्तनो मुखेनेव पटिञ्ञातत्ता ‘‘मुखपटिञ्ञा’’ति वुच्चति.

नेव आगतट्ठानं न गतट्ठानं अद्दसंसु. कस्मा? अञ्ञाणतो. ते किर तस्स सुत्तस्स अत्थं न जानिंसु. तेसञ्हि तस्मिं समये विचित्रनयं देसनाविलासयुत्तम्पि तं सुत्तं घनपुथुलेन दुस्सपट्टेन मुखं बद्धं कत्वा पुरतो ठपितमनुञ्ञभोजनं विय अहोसि. ननु च भगवा अत्तना देसितं धम्मं परे ञापेतुं कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो, सो कस्मा यथा ते न जानन्ति, तथा देसेतीति? तेसं मानभञ्जनत्थं. भगवा हि ‘‘अभब्बा इमे इमं मानखिलं अनुपहच्च मग्गं वा फलं वा सच्छिकातु’’न्ति तेसं सुतपरियत्तिं निस्साय उप्पन्नं अट्ठुप्पत्तिं कत्वा देसनाकुसलो मानभञ्जनत्थं ‘‘सब्बधम्ममूलपरियाय’’न्तिआदिना मूलपरियायसुत्तं (म. नि. १.१) अभासि.

सम्मासम्बुद्धो ‘‘मय्हं कथा निय्याती’’ति मुखसम्पत्तमेव कथेतीति चिन्तयिंसूति इदं अङ्गुत्तरभाणकानं वळञ्जनकतन्तिनीहारेन वुत्तं. मज्झिमभाणका पन एवं वदन्ति – एवं मानभञ्जनत्थं देसितञ्च पन तं सुत्तं सुत्वा ते भिक्खू ‘‘तंयेव किर पथविं दिट्ठिगतिको सञ्जानाति, सेखोपि अरहापि तथागतोपि अभिजानाति, कि नामिदं कथं नामिद’’न्ति चिन्तेन्ता ‘‘पुब्बे मयं भगवता कथितं यंकिञ्चि खिप्पमेव जानाम, इदानि पनिमस्स मूलपरियायस्स अन्तं वा कोटिं वा न जानाम न पस्साम, अहो बुद्धा नाम अप्पमेय्या अतुला’’ति उद्धतदाठा विय सप्पा निम्मदा हुत्वा बुद्धूपट्ठानञ्च धम्मस्सवनञ्च सक्कच्चं अगमंसु. तेन समयेन धम्मसभायं सन्निसिन्ना भिक्खू ‘‘अहो बुद्धानं आनुभावो, ते नामब्राह्मणपब्बजिता तथा मानमदमत्ता भगवता मूलपरियायदेसनाय निहतमाना कता’’ति कथं समुट्ठापेसुं. तं सुत्वा भगवा ‘‘न, भिक्खवे, इदानेव, पुब्बेपि अहं एवं इमे मानपग्गहितसीसे चरन्ते निहतमाने अकासि’’न्ति वत्वा अतीतं आहरन्तो ‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो दिसापामोक्खो ब्राह्मणो बाराणसियं पटिवसति तिण्णं वेदानं पारगू सनिघण्टुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो, सो पञ्चमत्तानि माणवकसतानि मन्ते वाचेति. पण्डितमाणवका बहुञ्च गण्हन्ति लहुञ्च, सुट्ठु च उपधारेन्ती’’तिआदिना जातकं कथेसि.

तं सुत्वा ते भिक्खू ‘‘पुब्बेपि मयं मानेनेव उपहता’’ति भिय्योसोमत्ताय निहतमाना हुत्वा अत्तनो उपकारकम्मट्ठानपरायणा अहेसुं. ततो भगवा एकं समयं जनपदचारिकं चरन्तो वेसालिं पत्वा गोतमके चेतिये विहरन्तो इमेसं पञ्चसतानं भिक्खूनं ञाणपरिपाकं विदित्वा इदं गोतमकसुत्तं कथेसि. इदञ्च सुत्तं सुत्वा ते पञ्चसता भिक्खू तस्मिंयेव आसने सह पटिसम्भिदाहि अरहत्तं पापुणिंसूति.

अभिञ्ञायाति कुसलादिभेदं खन्धादिभेदञ्च देसेतब्बं धम्मं, वेनेय्यानञ्च आसयानुसयचरियाधिमुत्तिआदिभेदं, तस्स च नेसं देसेतब्बप्पकारं याथावतो अभिजानित्वाति अत्थो. इमे पञ्चक्खन्धा द्वादसायतनानीतिआदि पनेत्थ निदस्सनमत्तं वुत्तन्ति वेदितब्बं. सप्पच्चयन्ति सकारणं, वेनेय्यानं अज्झासयेन वा पुच्छाय वा अट्ठुप्पत्तिया वा सनिमित्तं हेतूदाहरणसहितञ्चाति अत्थो. रागादीनं पटिहरणं पटिहारियं, तदेव पाटिहारियं, सह पाटिहारियेनाति सप्पाटिहारियं. रागादिप्पटिसेधनवसेनेव हि सत्था धम्मं देसेति. तेनाह ‘‘पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा’’ति. अपरे पन ‘‘यथारहं इद्धिआदेसनानुसासनिपाटिहारियसहित’’न्ति वदन्ति अनुसासनिपाटिहारियरहिता देसना नत्थीति कत्वा. सेसमेत्थ उत्तानमेव.

गोतमकचेतियसुत्तवण्णना निट्ठिता.