१. आपायिकसुत्तवण्णना
११४. दुतियस्स पठमे अपायेसु निब्बत्तनसीलताय अपायूपगा आपायिकाति आह ‘‘अपायं गच्छिस्सन्तीति आपायिका’’ति. अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुम्भकपत्तधरे गामनिगमराजधानीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा सयम्पि तादिसेन आकारेन तथापटिपज्जनतो ‘‘अहं ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होतीति आह ‘‘ब्रह्मचारिपटिञ्ञोति ब्रह्मचारिपटिरूपको’’ति. ‘‘अहम्पि भिक्खू’’ति वत्वा उपोसथङ्गादीनि पविसन्तो पन ब्रह्मचारिपटिञ्ञो होतियेव, तथा सङ्घिकं लाभं गण्हन्तो. तेनाह ‘‘तेसं वा…पे… एवंपटिञ्ञो’’ति. अक्कोसतीति ‘‘अस्समणोसि, समणपटिञ्ञोसी’’तिआदिना अक्कोसति. परिभासतीति ‘‘सो त्वं ‘होतु, मुण्डकसमणो अह’न्ति मञ्ञसि, इदानि ते अस्समणभावं आरोपेस्सामी’’तिआदिना वदन्तो परिभासति.
किलेसकामोपि अस्सादियमानो वत्थुकामन्तोगधोयेव, किलेसकामवसेन च तेसं अस्सादनं सियाति आह ‘‘किलेसकामेन वत्थुकामे सेवन्तस्सा’’ति. किलेसकामेनाति करणत्थे करणवचनं. नत्थि दोसोति अस्सादेत्वा विसयपरिभोगे नत्थि आदीनवो, तप्पच्चया न कोचि अन्तरायोति अधिप्पायो. पातब्बतं आपज्जतीति परिभुञ्जनकतं उपगच्छति. परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्ब-सद्दो, यथारुचि परिभुञ्जतीति अत्थो. पिवितब्बतं परिभुञ्जितब्बतन्ति एत्थापि कत्तुवसेनेव अत्थो वेदितब्बो.
आपायिकसुत्तवण्णना निट्ठिता.