१०. दुतियनिदानसुत्तवण्णना

११३. दसमे विवट्टगामिकम्मानन्ति विवट्टूपनिस्सयकम्मानं. तदभिनिवत्तेतीति एत्थ तं-सद्देन पच्चामसनस्स विपाकस्स परामासोति आह ‘‘तं अभिनिवत्तेती’’ति, तं विपाकं अभिभवित्वा निवत्तेतीति अत्थो. इदानि न केवलं विपाकस्सेव परामासो तं-सद्देन, अथ खो छन्दरागट्ठानियानं धम्मानं तब्बिपाकस्स च परामासो दट्ठब्बोति आह ‘‘यदा वा तेना’’तिआदि. ते चेव धम्मेति ते छन्दरागट्ठानिये धम्मे. निब्बिज्झित्वा पस्सतीति किलेसे निब्बिज्झित्वा विभूतं पाकटं कत्वा पस्सतीति.

दुतियनिदानसुत्तवण्णना निट्ठिता.

सम्बोधवग्गवण्णना निट्ठिता.