५-७. पठमआजानीयसुत्तादिवण्णना
९७-९९. पञ्चमे अनुच्छविकोति रञ्ञो परिभुञ्जनयोग्गो. हत्थपादादिअङ्गसमतायाति हत्थपादादिअवयवसमताय, रञ्ञो वा सेनाय अङ्गभूतत्ता रञ्ञो अङ्गन्ति वुच्चति. आनेत्वा हुनितब्बन्ति आहुनं, आहुतीति अत्थतो एकन्ति आह ‘‘आहुतिसङ्खातं पिण्डपात’’न्ति. दूरतोपि आनेत्वा सीलवन्तेसु दातब्बस्सेतं अधिवचनं. पिण्डपातन्ति च निदस्सनमत्तं. आनेत्वा हुनितब्बानञ्हि चीवरादीनं चतुन्नं पच्चयानमेतं अधिवचनं आहुनन्ति. तं अरहतीति आहुनेय्यो. पटिग्गहेतुं युत्तोति तस्स महप्फलभावकरणतो पटिग्गण्हितुं अनुच्छविको.
पाहुनकभत्तस्साति दिसविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्कारे पटियत्तस्स आगन्तुकभत्तस्स. तञ्हि ठपेत्वा ते तथारूपे पाहुनके सङ्घस्सेव दातुं युत्तं, सङ्घोव तं पटिग्गहेतुं युत्तो. सङ्घसदिसो हि पाहुनको नत्थि. तथा हेस एकस्मिं बुद्धन्तरे वीतिवत्ते दिस्सति, कदाचि असङ्ख्येय्येपि कप्पे वीतिवत्ते. अब्बोकिण्णञ्च पियमनापतादिकरेहि धम्मेहि समन्नागतो. एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो. अयञ्हेत्थ अधिप्पायो ‘‘ञातिमित्ता विप्पवुट्ठा न चिरस्सेव समागच्छन्ति, अनवट्ठिता च तेसु पियमनापता, न एवमरियसङ्घो, तस्मा सङ्घोव पाहुनेय्यो’’ति.
दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा, परलोकं सद्दहित्वा दानं. तं दक्खिणं अरहति, दक्खिणाय वा हितो यस्मा महप्फलकरणताय विसोधेतीति दक्खिणेय्यो.
पुञ्ञत्थिकेहि अञ्जलि करणीयो एत्थाति अञ्जलिकरणीयो. उभो हेत्थ सिरसि पतिट्ठापेत्वा सब्बलोकेन कयिरमानं अञ्जलिकम्मं अरहतीति वा अञ्जलिकरणीयो. तेनाह ‘‘अञ्जलिपग्गहणस्स अनुच्छविको’’ति.
यदिपि पाळियं ‘‘अनुत्तर’’न्ति वुत्तं, नत्थि इतो उत्तरं विसिट्ठन्ति हि अनुत्तरं, समम्पिस्स पन नत्थीति दस्सेन्तो ‘‘असदिस’’न्ति आह. खित्तं वुत्तं बीजं महप्फलभावकरणेन तायति रक्खति, खिपन्ति वपन्ति एत्थ बीजानीति वा खेत्तं, केदारादि, खेत्तं विय खेत्तं, पुञ्ञानं खेत्तं पुञ्ञक्खेत्तं. यथा हि रञ्ञो वा अमच्चस्स वा सालीनं वा यवानं वा विरुहनट्ठानं ‘‘रञ्ञो सालिक्खेतं यवक्खेत’’न्ति वुच्चति, एवं सङ्घो सब्बलोकस्स पुञ्ञानं विरुहनट्ठानं. सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखसंवत्तनिकानि पुञ्ञानि विरुहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. सेसं सुविञ्ञेय्यमेव. छट्ठसत्तमानि उत्तानत्थानेव.
पठमआजानीयसुत्तादिवण्णना निट्ठिता.