३. सरदसुत्तवण्णना
९५. ततिये विद्धेति दूरीभूते. दूरभावो च आकासस्स वलाहकविगमेन होतीति आह ‘‘वलाहकविगमेन दूरीभूते’’ति. तेनेव हि ‘‘विद्धे विगतवलाहके’’ति वुत्तं. नभं अब्भुस्सक्कमानोति आकासं अभिलङ्घन्तो. इमिना तरुणसूरियभावो दस्सितो. नातिदूरोदिते हि आदिच्चे तरुणसूरियसमञ्ञा. दुविधमेवस्स संयोजनं नत्थीति ओरम्भागियउद्धम्भागियवसेन दुविधम्पि संयोजनं अस्स पठमज्झानलाभिनो अरियसावकस्स नत्थि. कस्मा पनस्स उद्धम्भागियसंयोजनम्पि नत्थीति वुत्तं. ओरम्भागियसंयोजनानमेव हेत्थ पहानं वुत्तन्ति आह ‘‘इतरम्पी’’तिआदि, इतरं उद्धम्भागियसंयोजनं पुन इमं लोकं पटिसन्धिवसेन आनेतुं असमत्थताय नत्थीति वुत्तन्ति अत्थो. झानलाभिनो हि सब्बेपि अरिया ब्रह्मलोकूपपन्ना हेट्ठा न उप्पज्जन्ति, उद्धं उद्धं उप्पज्जन्तापि वेहप्फलं अकनिट्ठं भवग्गञ्च पत्वा न पुनञ्ञत्थ जायन्ति, तत्थ तत्थेव अरहत्तं पत्वा परिनिब्बायन्ति. तेनेवाह ‘‘इमस्मिं सुत्ते झानानागामी नाम कथितो’’ति. झानवसेन हि हेट्ठा न आगच्छतीति झानानागामी.
सरदसुत्तवण्णना निट्ठिता.