३. तपनीयसुत्तवण्णना

३. ततिये तपनीयाति एत्थ कत्तुअत्थे अनीय-सद्दोति आह ‘‘तपन्तीति तपनीया’’ति. तपन्तीति विबाधेन्ति, विहेठेन्तीति अत्थो. तपनं वा दुक्खं, दिट्ठे चेव धम्मे अभिसम्परायञ्च तस्स उप्पादनेन चेव अनुबलप्पदानेन च हिताति तपनीया. अथ वा तपन्ति तेनाति तपनं, अनुतापो, विप्पटिसारोति अत्थो. तस्स हेतुभावतो हिताति तपनीया. अनुसोचतीति विप्पटिसारी हुत्वा कताकतं अनुगम्म सोचति. सोचनञ्हि कतत्ता च होति अकतत्ता च. तथा चेव पाळियं विभत्तं. नन्दयक्खादीनं वत्थूनि पाकटानीति तानि अदस्सेत्वा द्वेभातिकवत्थुं दस्सेन्तो ‘‘ते किरा’’ति आदिमाह. तत्थ तेति द्वे भातरो. पुन किं मग्गसीति पुन किं इच्छसि.

तपनीयसुत्तवण्णना निट्ठिता.