५-१०. मिगसालासुत्तादिवण्णना
७५-८०. पञ्चमे इमस्स हि पुग्गलस्स सीलविरहितस्स पञ्ञा सीलं परिधोवतीति अखण्डादिभावापादनेन सीलं आदिमज्झपरियोसानेसु पञ्ञाय सुविसोधितं करोति. यस्स हि अब्भन्तरे सीलसंवरो नत्थि, उग्घटितञ्ञुताय पन चातुप्पदिकगाथापरियोसाने पञ्ञाय सीलं धोवित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति, अयं पञ्ञाय सीलं धोवति नाम सेय्यथापि सन्ततिमहामत्तो.
सीलवा पन पञ्ञं धोवति. यस्स (दी. नि. अट्ठ. १.३१७) हि पुथुज्जनस्स सीलं सट्ठिअसीतिवस्सानि अखण्डं होति, सो मरणकालेपि सब्बकिलेसे घातेत्वा सीलेन पञ्ञं धोवित्वा अरहत्तं गण्हाति कन्दरसालपरिवेणे महासट्ठिवस्सत्थेरो विय. थेरे किर मरणमञ्चे निपज्जित्वा बलववेदनाय नित्थुनन्ते तिस्समहाराजा ‘‘थेरं पस्सिस्सामी’’ति गन्त्वा परिवेणद्वारे ठितो तं सद्दं सुत्वा पुच्छि ‘‘कस्स सद्दो अय’’न्ति. थेरस्स नित्थुननसद्दोति. ‘‘पब्बज्जाय सट्ठिवस्सेन वेदनापरिग्गहमत्तम्पि न कतं, इदानि न तं वन्दिस्सामी’’ति निवत्तित्वा महाबोधिं वन्दितुं गतो. ततो उपट्ठाकदहरो थेरं आह ‘‘किं नो, भन्ते, लज्जापेथ, सद्धोपि राजा विप्पटिसारी हुत्वा ‘न वन्दिस्सामी’ति गतो’’ति. कस्मा, आवुसोति? तुम्हाकं नित्थुननसद्दं सुत्वाति. ‘‘तेन हि मे ओकासं करोथा’’ति वत्वा वेदनं विक्खम्भेत्वा अरहत्तं पत्वा दहरस्स सञ्ञं अदासि ‘‘गच्छावुसो, इदानि राजानं अम्हे वन्दापेही’’ति. दहरो गन्त्वा ‘‘इदानि किर थेरं वन्दथा’’ति आह. राजा सुसुमारपतितेन थेरं वन्दन्तो ‘‘नाहं अय्यस्स अरहत्तं वन्दामि, पुथुज्जनभूमियं पन ठत्वा रक्खितसीलमेव वन्दामी’’ति आह. एवं सीलेन पञ्ञं धोवति नाम. सेसं वुत्तमेव. छट्ठादीसु नत्थि वत्तब्बं.
मिगसालासुत्तादिवण्णना निट्ठिता.
आकङ्खवग्गवण्णना निट्ठिता.