१-७. अविज्जासुत्तादिवण्णना

६१-६७. दुतियस्स पठमादीनि उत्तानत्थानि. सत्तमे नळकपानकेति एवंनामके निगमे. पुब्बे किर (जा. अट्ठ. १.१.१९ आदयो) अम्हाकं बोधिसत्तो कपियोनियं निब्बत्तो महाकायो कपिराजा हुत्वा अनेकसतवानरसहस्सपरिवुतो पब्बतपादे विचरि, पञ्ञवा खो पन होति महापञ्ञो. सो परिसं एवं ओवदति, ‘‘ताता, इमस्मिं पब्बतपादे विसफलानि होन्ति, अमनुस्सपरिग्गहिता पोक्खरणिका नाम होन्ति, तुम्हे पुब्बे खादितपुब्बानेव फलानि खादथ, पीतपुब्बानेव पानीयानि पिवथ, एत्थ वो पटिपुच्छितकिच्चं नत्थी’’ति. ते अपीतपुब्बं दिस्वा सहसाव अपिवित्वा समन्ता परिधावित्वा महासत्तस्स आगमनं ओलोकयमाना निसीदिंसु. महासत्तो आगन्त्वा ‘‘किं, ताता, पानीयं न पिवथा’’ति आह. तुम्हाकं आगमनं ओलोकेमाति. ‘‘साधु, ताता’’ति समन्ता पदं परियेसमानो ओतिण्णपदंयेव अद्दस, न उत्तिण्णपदं. अदिस्वा ‘‘सपरिस्सया’’ति अञ्ञासि. तावदेव च तत्थ अभिनिब्बत्तअमनुस्सो उदकं द्वेधा कत्वा उट्ठासि – सेतमुखो, नीलकुच्छि, रत्तहत्थपादो, महादाठिको, वन्तदाठो, विरूपो, बीभच्छो, उदकरक्खसो. सो एवमाह – ‘‘कस्मा पानीयं न पिवथ, मधुरं उदकं पिवथ, किं तुम्हे एतस्स वचनं सुणाथा’’ति. महासत्तो आह ‘‘त्वं अधिवत्थो अमनुस्सो’’ति? आमाहन्ति. ‘‘त्वं इध ओतिण्णे लभसी’’ति आह. आम, तुम्हे पन सब्बे खादिस्सामीति. न सक्खिस्ससि यक्खाति. पानीयं पन पिविस्सथाति. आम, पिविस्सामाति. एवं सन्ते एकम्पि वानरं न मुञ्चिस्सन्ति. ‘‘पानीयञ्च पिविस्साम, न च ते वसं गमिस्सामा’’ति नळं आहरापेत्वा कोटियं गहेत्वा धमि. सब्बो एकच्छिद्दो अहोसि. तीरे निसीदित्वाव पानीयं पिवि. सेसवानरानम्पि पाटियेक्कं नळं आहरापेत्वा धमित्वा अदासि. सब्बे ते पस्सन्तस्सेव पानीयं पिविंसु. वुत्तम्पि चेतं –

‘‘दिस्वा पदमनुत्तिण्णं, दिस्वानोतरितं पदं;

नळेन वारिं पिस्साम, नेव मं त्वं वधिस्ससी’’ति. (जा. १.१.२०);

ततो पट्ठाय याव अज्जदिवसा तस्मिं ठाने नळा एकच्छिद्दाव होन्ति. इमस्मिञ्हि कप्पे कप्पट्ठियपाटिहारियानि नाम चन्दे ससलक्खणं (जा. १.४.६१ आदयो), वट्टजातके (जा. १.१.३५) सच्चकिरियट्ठाने अग्गिजालस्स आगमनुपच्छेदो, घटीकारस्स मातापितूनं वसनट्ठाने अनोवस्सनं (म. नि. २.२९१), पोक्खरणिया तीरे नळानं एकच्छिद्दभावोति. इति सा पोक्खरणी नळेन पानीयस्स पिवितत्ता ‘‘नळकपानका’’ति नामं लभि. अपरभागे तं पोक्खरणिं निस्साय निगमो पतिट्ठासि, तस्सपि ‘‘नळकपान’’न्त्वेव नामं जातं. तं पन सन्धाय वुत्तं ‘‘नळकपाने’’ति. पलासवनेति किंसुकवने.

तुण्हीभूतं तुण्हीभूतन्ति ब्यापनिच्छायं इदं आमेडितवचनन्ति दस्सेतुं ‘‘यं यं दिस’’न्तिआदि वुत्तं. अनुविलोकेत्वाति एत्थ अनु-सद्दो ‘‘परी’’ति इमिना समानत्थोति आह ‘‘ततो ततो विलोकेत्वा’’ति. कस्मा आगिलायति कोटिसहस्सहत्थिनागानं बलं धारेन्तस्साति चोदकस्स अधिप्पायो. आचरियो पनस्स ‘‘एस सङ्खारानं सभावो, यदिदं अनिच्चता. ये पन अनिच्चा, ते एकन्तेनेव उदयवयप्पटिपीळितताय दुक्खा एव. दुक्खसभावेसु तेसु सत्थुकाये दुक्खुप्पत्तिया अयं पच्चयो’’ति दस्सेतुं ‘‘भगवतो’’तिआदि वुत्तं. पिट्ठिवातो उप्पज्जि, सो च खो पुब्बेकतकम्मपच्चया. एत्थाह ‘‘किं पन तं कम्मं, येन अपरिमाणकालं सक्कच्चं उपचितविपुलपुञ्ञसम्भारो सत्था एवरूपं दुक्खविपाकमनुभवती’’ति? वुच्चते – अयमेव भगवा बोधिसत्तभूतो अतीतजातियं मल्लपुत्तो हुत्वा पापजनसेवी अयोनिसोमनसिकारबहुलो चरति. सो एकदिवसं निब्बुद्धे वत्तमाने एकं मल्लपुत्तं गहेत्वा गाळ्हतरं निप्पीळेसि. तेन कम्मेन इदानि बुद्धो हुत्वापि दुक्खमनुभवि. यथा चेतं, एवं चिञ्चमाणविकादीनमित्थीनं यानि भगवतो अब्भक्खानादीनि दुक्खानि, सब्बानि पुब्बेकतस्स विपाकावसेसानि, यानि कम्मपिलोतिकानीति वुच्चन्ति. वुत्तञ्हेतं अपदाने (अप. थेर १.३९.६४-९६) –

‘‘अनोतत्तसरासन्ने, रमणीये सिलातले;

नानारतनपज्जोते, नानागन्धवनन्तरे.

‘‘महता भिक्खुसङ्घेन, परेतो लोकनायको;

आसीनो ब्याकरी तत्थ, पुब्बकम्मानि अत्तनो.

‘‘सुणाथ भिक्खवो मय्हं, यं कम्मं पकतं मया;

पिलोतिकस्स कम्मस्स, बुद्धत्तेपि विपच्चति.

१. ‘‘मुनाळि नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु;

पच्चेकबुद्धं सुरभिं, अब्भाचिक्खिं अदूसकं.

‘‘तेन कम्मविपाकेन, निरये संसरिं चिरं;

बहू वस्ससहस्सानि, दुक्खं वेदेसि वेदनं.

‘‘तेन कम्मावसेसेन, इध पच्छिमके भवे;

अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा.

२. ‘‘सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको;

तं अब्भक्खाय निरये, चिरं संसरितं मया.

‘‘दस वस्ससहस्सानि, निरये संसरिं चिरं;

मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं.

‘‘तेन कम्मावसेसेन, चिञ्चमाणविका ममं;

अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो.

३. ‘‘ब्राह्मणो सुतवा आसिं, अहं सक्कतपूजितो;

महावने पञ्चसते, मन्ते वाचेसि माणवे.

‘‘तत्थागतो इसि भीमो, पञ्चाभिञ्ञो महिद्धिको;

तञ्चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं.

‘‘ततोहं अवचं सिस्से, कामभोगी अयं इसि;

मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा.

‘‘ततो माणवका सब्बे, भिक्खमानं कुले कुले;

महाजनस्स आहंसु, कामभोगी अयं इसि.

‘‘तेन कम्मविपाकेन, पञ्च भिक्खुसता इमे;

अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा.

४. ‘‘वेमातुभातरं पुब्बे, धनहेतु हनिं अहं;

पक्खिपिं गिरिदुग्गस्मिं, सिलाय च अपिंसयिं.

‘‘तेन कम्मविपाकेन, देवदत्तो सिलं खिपि;

अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा.

५. ‘‘पुरेहं दारको हुत्वा, कीळमानो महापथे;

पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं खिपिं.

‘‘तेन कम्मविपाकेन, इध पच्छिमके भवे;

वधत्थं मं देवदत्तो, अभिमारे पयोजयि.

६. ‘‘हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमं;

पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं.

‘‘तेन कम्मविपाकेन, भन्तो नाळागिरी गजो;

गिरिब्बजे पुरवरे, दारुणो समुपागमि.

७. ‘‘राजाहं पत्थिवो आसिं, सत्तिया पुरिसं हनिं;

तेन कम्मविपाकेन, निरये पच्चिसं भुसं.

‘‘कम्मुनो तस्स सेसेन, इदानि सकलं मम;

पादे छविं पकप्पेसि, न हि कम्मं विनस्सति.

८. ‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको;

मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं.

‘‘तेन कम्मविपाकेन, सीसदुक्खं अहू मम;

सब्बे सक्का च हञ्ञिंसु, यदा हनि विटटूभो.

९. ‘‘फुस्सस्साहं पावचने, सावके परिभासयिं;

यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो.

‘‘तेन कम्मविपाकेन, तेमासं खादितं यवं;

निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा.

१०. ‘‘निब्बुद्धे वत्तमानम्हि, मल्लपुत्तं निहेठयिं;

तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू मम.

११. ‘‘तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिं;

तेन कम्मविपाकेन, होति पक्खन्दिका मम.

१२. ‘‘अवचाहं जोतिपालो, सुगतं कस्सपं तदा;

कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.

‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;

छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.

‘‘नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं;

कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो.

‘‘पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो;

असोको अनुपायासो, निब्बायिस्समनासवो.

‘‘एवं जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो;

सब्बाभिञ्ञाबलप्पत्तो, अनोतत्ते महासरे’’ति. (अप. थेर १.३९.६४-९६);

अविज्जासुत्तादिवण्णना निट्ठिता.