९. पठमअरियावाससुत्तवण्णना
१९. नवमे अरियानं एव आवासाति अरियावासा अनरियानं तादिसानं असम्भवतो. अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता. ते च यस्मा तेहि सब्बकालं अविजहितवासा एव, तस्मा वुत्तं ‘‘ते आवसिंसु आवसन्ति आवसिस्सन्ती’’ति. तत्थ आवसिंसूति निस्साय आवसिंसु. पञ्चङ्गविप्पहीनतादयो हि अरियानं अपस्सया. तेसु पञ्चङ्गविप्पहानपच्चेकसच्चपनोदनएसनाओसट्ठानि, ‘‘सङ्खायेकं पटिसेवति, अधिवासेति परिवज्जेति विनोदेती’’ति (दी. नि. ३.३०८; म. नि. २.१६८; अ. नि. १०.२०) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे मग्गेन च समिज्झन्तीति.
पठमअरियावाससुत्तवण्णना निट्ठिता.